पृष्ठम्:अलङ्कारमणिहारः.pdf/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
132
अलंकारमणिहारे

 दितिसुतसंघातस्य भूतिरैश्वर्यमेव भूतिर्भस्म तस्याः वातूलम् । इदं श्लिष्टकेवलपरंपरितम् ॥

 इदमेव मालारूपं यथा--

 भुवनजडतावसन्तं संतमसकदम्बकैकभास्वन्तम् । स्वान्ताहिशैलकान्तं चिन्तय दुर्व्याळकुलगरुत्मन्तम् ॥ २२२ ॥

 हे स्वान्तेति संबुद्धिः । भुवनजडता लोकजाड्यमेव जलशैत्यं तस्य वसन्तम् । दुष्टाः ये व्याळाः शठाः दैत्यादयः । त एव व्याळाः भुजगाः 'भेद्यलिङ्गश्शठे व्याळः पुंसि श्वापदसर्पयोः' इत्यमरः । तेषां गरुत्मन्तम् । नाश्यनाशकभावरूपप्रातिकूल्यमुपमानयोस्तथैवोपमेययोश्च। अनुग्राह्यानुग्राहकभावः पुनरारोपयोरविशिष्ट एव । एवमग्रेऽपि ॥

 यथा वा--  दोषोल्लासविभातं दैत्यावश्यायचण्डकरमेतम् । भज भुजगधराभरणं शरणागतपङ्कजातसितकिरणम् ॥ २२३ ॥

 दोषोल्लास एव रात्रिविकासः तस्य विभातं प्रभातम् । दैत्यानामवश्यायो गर्व एव हिमं ‘अवश्यायो हिमगर्वयोः' इति रत्नमाला । शरणागतानां पङ्कजातं दुरितबृन्दमेव कमलम् । अत्र भजेत्युक्तिः स्वहृदयं प्रतीति बोध्यम् ॥

 यथा वा--  दुस्तृष्णाकासारं सासारघनं भवाभितापानाम् । वेंकटनाथं कलये जगदातङ्कागदङ्कारम् ॥ २२४ ॥