पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः । जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता ॥ ३१ ॥ चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥ ५. धीवर्ग:] इति कालवर्गः 1 विषयेषु K2. 4 मन्यते मनः A, B1, T. (वि.) प्राणीति – प्राणोऽस्यास्तीति । प्राणी । चेततीति चेतनः । 'चिती' संज्ञाने' । जन्मास्यास्तीति जन्मी । जायते जन्तुः । जन्युश्च । 'जनी प्रादुर्भावे । शरीरमस्यास्तीति शरीरी । प्राणिनामानि ॥ जायते जातिः । जातं च । 'जनी प्रादुर्भावे'। समानस्य भावः सामान्यम् । जातिनामानि ॥ व्यज्यत इति व्यक्तिः । पृथगात्मनो भावः पृथगात्मता । व्यक्तिनामनी ॥ चेतयतेऽनेन चित्तम् । चेतश्च । 'चिती संज्ञाने' । ‘चिञ्चिन्तायाम्' । ' विषयैः हियते हृदयम् । 'हृच्च । 'हृञ् हरणे' । 'शोभनोऽन्तो यस्य स्वान्तम् । स्वनतीति वा स्वान्तम् । 'स्वन शब्दे' । मन एव मानसम् । मन्यतेऽनेन मनः । 'मन ज्ञाने' । मनोनामानि ॥ ३१ ॥ इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ कालवर्गः: 2 विषयैः ह्रियते हृत् Y. ९९ 3 शोभनमन्तं K1, K2, K3, W1. (पा.) प्राणी - शरीरिणः । प्राणिनामानि ॥ जातिः– सामान्यम् । जाति- नामानि ॥ व्यक्तिस्तु पृथगात्मता । व्यक्तिनामनी ॥ चित्तं - मनः | अन्तःकरणनामानि ॥ 'स्वान्तमास्वनितं चित्तं चेतोऽन्तःकरणं मनः' इति धनंजयः ॥ ३१ ॥ इति श्रीवत्स'नृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते कालवर्गः 1 नरसिंह" A1. ५. धीवर्गः बुद्धिर्मनीषा घिषणा धीः प्रज्ञा शेमुषी मतिः । प्रेक्षोपलव्धिश्चित् संवित् प्रतिपज्ज्ञप्तिचेतनाः ॥ १ ॥