पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४. कालवर्गः] दाक्षिणात्यव्याख्योपेतः 2 आसु D1; वृष्यन्ते आसु B2. D1, I. 1 प्रकर्षेण वर्षतीति B2. 4 पङ्कजलानि B2. 5 हेमन्तादय: ८५ 3 स्त्रीलिङ्गं च B2. (पा.) स्त्रियां – वर्षाः । वर्षर्तुनामानि । प्रावृषाशब्दोऽप्यस्ति । 'प्रावृषा तु जलार्णवः' इति त्रिकाण्डशेष: (पृ. ६, लो. ११५) ॥ अथ शरत् स्त्रियाम् । शरतुनाम । शरद | शब्दोऽप्यस्ति । ‘" कालप्रभातं शरदा' इति त्रिकाण्डशेष: ( पृ. ६, श्लो. ११५) ।। पडमी – क्रमात् । हेमन्तादयः षडपि मार्गशीर्षादियुग्मक्रमेण ऋतुशब्दवाच्याः पुंलिङ्गाः । यद्वा ऋतुशब्दः पुंलिङ्गः । कार्त्तिकादियुग्मक्रमात् व्यवस्था' मा भूदिति मार्गग्रहणम् ॥२०॥ 2 A1 adds पूर्व. 3 A1 adds वैषम्यं. 1 कल्यं विभातं शरदा A1, B1. संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत् समाः । मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः ॥ २१ ॥ 'वस (वि.) संवत्सर इति —– संवसन्ति ऋतवोऽत्र संवत्सरः । वत्सरश्च । निवासे ' । आप्यते 'अधिकमासेनेत्यदः । 'आप्ऌ व्याप्तौ' । अपो ददातीति वा । 'डुदाञ् दाने' । जहाति क्रमेण ऋतूनिति हायन: । 'ओहाक् त्यागे' । शीर्यते जगदत्रेति शरत् । ‘श हिंसायाम् ' । समयन्तीति 'जनान् समाः । 'षम वैकृव्ये ' । अयं शब्दः स्त्रीलिङ्गो बहुवचनान्त: । एकवचनान्तो वा । संवत्सरनामानि ॥ मानुषेण मासेन पैत्रः अहोरात्र: स्यात् । पितॄणामयं पैत्रः । मानुषेण वर्षेण दैवतः अहोरात्रः स्यात् । देवतानामयं दैवतः ॥ २१ ॥ 1 वसन्ता दिऋतवोऽत्र सम्यक् वसन्तीति B2. 2 अखिल° K1, Y. 4 जीवान B1, K5, W2. 3 अङ्गमत्रेति B2. (पा.) संवत्सरो – समाः । संवत्सरनामानि । अस्त्रीशब्दो हायनशब्दविशेष- णम् । शरच्छब्दस्य, समाशब्दसाहचर्यात् स्त्रीलिङ्गतैव । 'वर्षोऽस्त्री स्त्री शरत्समाः इति वैजयन्ती (पृ. २४, लो. ९१ ) । समाशब्दोऽस्मिन् शास्त्रे बहुप्रकृतिकः । वामन- लिङ्गानुशासनेऽप्येवमेवोक्तम् । 'बहवञ्च समाः सिकता वर्षा आपः सुमनसो जलौकसो- ऽप्सरस ' इति (पृ. १६, श्लो. २३) ।। मासेन – पैत्रः । मानुषेण मासेन पितॄणामहोरात्रः । अत्र पक्षाभ्यां दिवारात्रिविभागः ॥ वर्षेण दैवतः । मानुषेण वर्षेण देवतानामहोरात्रः स्यात् । अत्रायनाभ्यां दिवारात्रिविभागः ॥ २१ ॥ 1 A1 adds अस्त्रीशब्दसाहचर्यात् पुंनपुंसकलिङ्गतायां प्राप्तायां. १