पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७९ ४. कालवर्गः] दाक्षिणात्यव्याख्योपेतः त्यप्यस्ति । 'अमावास्या त्वमावसा' इति वैजयन्ती (पृ. २२, लो. ७१ ) | सा दृष्टेन्दुः सिनीवाली । सा अमावसा दृष्टचन्द्रा चेत् सिनीवालीत्युच्यते । सा लक्ष्मीरस्यामस्तीति सिनी चन्द्रकला । सा बाला अस्यामिति सिनीवालीति व्युत्पत्त्या दन्त्यादिः । मा नष्टेन्दुकला कुहूः | सा अमावसी नष्टेन्दुकला चेत् कुहूरित्युच्यते ॥ ९ ॥ 3 शब्द्यते A1. 4 नष्टेन्दुदर्श- 1 अमवसा B3. 2 दृष्टेन्दुदर्शनाम B3, Bg. नाम Bg. उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च । सोपडवोपरक्तौ द्वावग्न्युत्पात उपाहितः ॥ १० ॥ एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ । (वि.) उपराग इति–उपरज्येते सूर्याचन्द्रमसावनेनेति उपरागः। ‘रञ्ज रागे’। गृह्येते सूर्याचन्द्रमसावनेन ग्रहः । 'ग्रह उपादाने' । ग्रहणनामनी ॥ उपप्लवेन सहितः सोपप्लवः । उपरज्यते उपरक्तः । राहुग्रस्ते इन्दौ पूष्णि च द्वौ शब्दौ वर्तेते। 'अग्नेरुत्पात: अग्न्युत्पातः । उप समीपे अहितमत्र उपाहितः । धूमकेतुनाम ॥ पुष्पं विकासः तद्वन्तौ पुष्पवन्तौ । सूर्याचन्द्रमसोरपृथङ्नाम ॥ १० ॥ 1 अग्निना कृतः उत्पात: B1, K5, W2- 2 अहितम् B1, D1. 3 धूमकेत्वादि॰ Ba. 4 पुष्पवद् विकास: K.. (पा.) उपरागो ग्रहः । ग्रहणनामनी ॥ राहुग्रस्ते – द्वौ । राहुग्रस्तचन्द्रसूर्य- नामनी ॥ अग्न्युत्पात उपाहितः । धूमकेतुनाम ॥ एकयोक्त्या – निशाकरौ । एकयोक्त्या सूर्याचन्द्रमसौ पुष्पवन्ताविति कथ्येते । 'जातौ स्वकिरणसंचयपटावृतौ वियति पुष्पवन्तौ सन्तौ । बाणासनौ च घनरवपटावृतौ वियति पुष्पवन्तौ सन्तौ ॥ ' इति हरिप्रबोधयमके || पुष्पदन्तावपि भवतः । 'प्राक्प्रत्यग्धरणीधरशिखरस्थितपुष्प- दन्ताभ्याम् ' इति धर्मशर्माभ्युदये ।। १० ।। 1 सूर्यचन्द्रौ B3. 2 पुष्पवत्पदवाच्यौ भवत: Bs, B.. अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला ॥ ११ ॥ तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् ।