पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः गणरात्रं निशा बह्वयः प्रदोषो रजनीमुखम् ॥ ६ ॥ अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ । ४. कालवर्गः] (वि.) गणरात्रमिति – रात्रीणां गणो गणरात्रम् | गणरात्रो वा। समाहारे नपुंसकम् । रात्रिसमूहनाम ॥ प्रकृष्टो दोषः प्रारब्धा दोषा वा अत्रेति प्रदोषः । 4 रजनीमुखनाम ॥ रात्रेरर्धम् अर्धरात्रः । नियतं शेरतेऽत्र ' निशीथः । 'शीङ् स्वप्ने ' । 'मध्यरात्रनामनी ॥ यातीति यामः । ' या प्रापणे ' । प्रयित इति प्रहरः” । 'हृञ् हरणे’ । दिनस्य रात्रेर्वा चतुर्भागनामानि ॥ ६ ॥ 3 1B1, We add समूहः. 2 W2 omits. रजन्याः मुखं रजनीमुखम् ; एतत् प्रदोषकालनाम B2, K5, W2. 6 मध्यरात्रि ° A, B1, D2, W1. 7 प्रकर्षेण ह्रियते° A. ७७ प्रारब्ध: B1. 4 B2 adds 5 A adds प्राणिनः . (पा.) गणरात्रं निशा बह्वयः । रात्रिसमूहः गणरात्रं स्यात् । अथवा बह्वयः 1 रात्रयो गणरात्रमित्युच्यते । चिररात्रमपि तन्नाम । 'बह्वयस्तु गणरात्रं च चिररात्रं च रात्रयः' इति वैजयन्ती (पृ. २१, श्लो. ५९) । प्रदोषो रजनीमुखम् । रात्रिमुखनाम || अर्धरात्रनिशीथौ द्वौ। रात्रिमध्यनामनी । 'मध्यरात्रो 'महारात्रिः ' । एते च । द्वौ - समौ । दिनस्य रात्रेर्वा तुरीयांशनामनी ॥ ६ ॥ 1 निशा: A1. 22 Bg omits. 3 रात्रेर्मुखं प्रदोष: स्यात् A1. स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ॥ ७ ॥ पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा । कलाहीने सानुमतिः पूर्णे राका निशाकरे ॥ ८ ॥ 4 महारात्रौ A.. (वि.) स इति – प्रतिपत्पञ्चदश्योर्यदन्तरं स संधिः, पर्व वा भवति । संधी- यते संधिः । पृणाति पालयति 'अभिलषितमिति पर्व । 'पृ पालनपूरणयोः' । पर्वसंधिरिति एकं पदं वा । 'शुक्लकृष्णपक्षान्तौ द्वे पञ्चदश्यौ भवतः । पञ्चदशसंख्यायाः पूरणी पञ्चदशी । पूर्णश्चासौ माञ्च पूर्णमाः, पूर्णमसः चन्द्रस्येयं पौर्णमासी । पूर्णो मासोऽस्यामिति वा । 'पूर्ण मिमीते पूर्णिमा । 'माङ् माने' । पूर्यते मास: अनयेति वा । ‘पूरी आप्यायने' । 'शुक्लपञ्चदशीनामानि ॥ अनुमन्यते अनुमतिः | ‘मन ज्ञाने' । ' चतुर्दशीमिश्रितपूर्णिमानाम ॥ यज्वभिः रायते राका | ‘रै शब्दे' । राति ददाति 10 अभिलषितमिति वा । ‘रा दाने' । संपूर्णचन्द्रवत्पूर्णिमानाम ॥ ७-८ ॥ ।