पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः । (वि.) काल इति–'कल्यते संख्यायते कालः । 'कल संख्याने’’। 'कलयति प्रेरयति वा कालः । ‘कल किल क्षेपे' | दिश्यते दिष्टः । 'दिश अतिसर्जने' । न ईहत इति अनेहा । 'ईह चेष्टायाम् ' । न हन्यते वा । सान्तः पुमान् । 'कर्मणि समेति समयः । ‘इण् गतौ’ | कालनामानि ॥ पक्षस्य मूलं प्रारम्भदिनं पक्षतिः । प्रतिपद्यते उपक्रम्यतेऽनया प्रतिपत् । ' 7 पद गतौ' । पक्षप्रथमदिवसनामनी ॥ तन्यते षष्टिघटि- कादिभिरिति तिथिः । ‘तनु विस्तारे ' । प्रतिपत्प्रभृति पञ्चदशीपर्यन्ततिथिनामानि ॥ १ ॥ 6 ७४ 3 कालयति K.. 4 ईहत 1 काल्यते B2, U. 2 A, B1, T add शिल्पिसंज्ञयो: 5 इति ईहा, ईहा न भवतीति नेहा, नेहा न भवतीति अनेहा; ईषदपि हन्यते ईहा, ईहा न भवतीति अनेहा, द्वयोर्नञोः प्रकृतार्थप्रतिपादकत्वेन हन्यमान इत्यर्थ: B2. पुंलिङ्ग: U.. 6 कर्मणा I, U. 9 ° पर्यन्तं दिवसनामानि B2, K5, W2. 8 °घटिकाभि: K1, W2, Y. पद्ल A, Y. 7 (पा.) कालो - समयोऽपि । कालनामानि । अनेहेत्यादन्तं पदम् । अन्यत्र अनेहसौ अनेहसः । हे अनेहः इत्यादि ॥ अथ पक्षतिः - स्त्रीत्वे । प्रतिपन्नामनी ॥ तदाद्यास्तिथयो द्वयोः । आद्यशब्देन पक्षत्यादीनामेव ग्रहणम् । ताश्च पञ्चदशतिथि - शब्दवाच्याः । स तिथिशब्दोऽपि स्त्रीपुंसलिङ्गः ॥ १ ॥ 1A1 adds अनेहेत्यत्र 'ऋदुशन – १ (७. १. ९४) इत्यादिनानङ्ङा देशोऽसंबुद्धौ.. 2 A, adds पक्षत्यादयः. घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ । प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ॥ २ ॥ व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते । प्रभातं च दिनान्ते तु साय: संध्या पितृप्रसूः || ३ || (वि.) घस्र इति – तमो घसतीति' घस्रः । 'घरऌ अदने' । तमो द्यतीति दिनम्। 'दो अवखण्डने' । सूर्येण न हीयते अहः । 'ओहाक् त्यागे' । दी॒व्यन्तिः देवा' अस्मिन्निति दिवसः । ' दिवु क्रीडादौ ' । वसन्ति व्यवहर्तारः अस्मिन्निति वासरः । 'वस निवासे'। अदिवसनामानि ॥ प्रत्यूषति निशामिति प्रत्यूषः । 'ऊष रुजायाम् ' । अह्नो मुखम् अहर्मुखम् । कलयति मङ्गलं कल्यम् । 'कल संख्याने' | काले साधु काल्यम् इति वा पाठः । ओषत्यन्धकारमिति' उषः । प्रत्युषश्च । 'उष प्लुष दाहे' | 'भातुं प्रवृत्तं प्रभातम् । 'भा दीप्तौ' । सूर्योदयात् प्राक् घटिकाचतुष्टयात्मकस्य कालस्य नामानि ): 6