पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ अमरकोशः [प्रथमकाण्ड: नक्षत्रमृक्षं भं तारा तारकाप्युड वा स्त्रियाम् । दाक्षायण्योऽश्विनीत्यादितारा अश्वयुगश्विनी ॥ २१ ॥ (वि.) नक्षत्रमिति – न क्षरति 'नक्षत्रम् । 'क्षर संचलने' । न क्षीयत इति । वा । 'क्षि क्षये ' । न क्षदत इति वा नक्षत्रम् । 'क्षढ़ गतिहिंसनयोः' । नक्षतीति वा । ‘णक्ष गतौ' । ऋक्षति तमो नाशयतीति ऋक्षम् । 'ऋक्ष हिंसायाम्' । ऋषतीति वा ऋक्षम् । 'ऋषी गतौ'। भा अस्यास्तीति ' भम् । तरत्यनयेति तारा । तारैव तारका | 'तृ प्लवनतरणयोः' । अवतीत्युडु' । 'अव रक्षणेत्यादि । नक्षत्रनामानि || दक्षस्या- पत्यानि स्त्रियः दाक्षायण्यः | अश्विन्यादिरेवत्यन्तनक्षत्रसाधारणनाम | अश्वा युज्यन्ते ऽस्यामिति अश्वयुक् । 'युजिर् योगे' । अश्ववत्त्वादश्विनी | अश्विनी नक्षत्रनामनी ॥ २१ ॥ 4 C adds 'भा 1 क्षरति गच्छतीति क्षः नाश इत्यर्थः, क्षो न भवतीति नक्षः, नित्यत्वमित्यर्थः, तत् त्रायते इति नक्षत्रम् । 'क्षर गतौ ' C. 2 न क्षरति न गच्छति B1, I, Y. 3 अथवा तमोनाशं कृत्वा रक्षतीति ऋक्षम् । 'रक्ष पालने' | रेफऋकारयोरभेद: B2, C. दीप्तौ '. 5 उद् डयते गच्छतीति उडु । उडुशब्द: स्त्रीलिङ्गो वा । 'डीङ् विहायसा गतौ ' C; उडति गच्छतीत्युडु, ' ‘ उड गतौ ' B2, C, I. स्यात् । (पा.) नक्षत्रं – स्त्रियाम् । नक्षत्रनामानि || अपिशब्दात् तारकाशब्दः नपुंसकञ्च ‘भं नक्षत्रं तारकं तारका च' इति हलायुधः (अ. मा. १.५१), 'तारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रमुडुर्न ना' इति वैजयन्ती (पृ. २०, लो. ३८) | दाक्षायण्यो- ताराः। अश्विन्यादितारा दाक्षायण्य इत्युच्यन्ते । सुभूतिटीकायां तत्क्रमोद्देशः कृतः। अश्विनी, भरणी, कृत्तिकाः षड् बहुषु, रोहिणी, मृगशिरा स्त्रीक्लीबयोः, आर्द्रा, पुनर्वसू द्वौ, पुष्यः, आश्लेषमघाः स्त्रियां बहुत्वे च, पूर्वोत्तर फल्गुन्यौ, हस्तः, चित्रा, स्वातिः स्त्रीपुंसयोः, विशाखे द्वे, अनूराधा, ज्येष्ठा, मूलं नपुंसकम्, पूर्वाषाढा, उत्तराषाढा, श्रवण : पुमान्, धनिष्ठा, शतभिषक् स्त्री, पूर्वभाद्रपदे द्वे, उत्तरभाद्रपदे द्वे, रेवती इति ॥ अश्वयुगश्विनी | अश्विनी नक्षत्रनामनी ॥ २१ ॥ 1 ° नक्षत्रनाम Bs. राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया । समा धनिष्ठा स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥