पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


रङ्गो रङ्गभूः ! तात्स्थ्यात्सभ्यसमूहः । रागे गीतधातौ बद्धा चित्तवृत्तिर्यस्य सः । अत एव सर्वतः सर्वत्रालिखित इव ! चित्रन्यस्त इवेत्यर्थः । द्वितीयपक्षे रज्यत इति रङ्गः । अथ रङ्गो रागो विद्यतेऽस्मािन्नित्यर्शआ


श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा ॥" इति । अथ तालश्चंचत्पुटादिः "कालो लघ्वादिमितया क्रियया संमित मितिम् । गीतादेर्विदधत्तालः स च द्वेधा बुधैः स्मृतः ॥" इति । एतद्रागादिविशिष्टं गीतमेव तालभेदेन ध्रुवादिसंज्ञां लभते । गीतस्य स्वतः कालक्रियामानविधायक त्वाभावादौत्पत्तिककालक्रियामानलक्षणघनं तालमुपजीव्य गीतं प्रवर्तत इति । तालशब्दमधिकृत्य प्राक्तनैर्बहुधा व्युत्पादितम् । तथा हि अतः "ताल प्रतिष्ठायाम्" इत्यस्माद्धातोरधिकरणार्थे घञि तालशब्दः सिद्ध्यतीति भरताचार्यः कथयति । आदिनटपदस्य तलंतलमित्युच्यते । तस्मात्तत्र भव इत्यर्थेऽणि ताल इति शैलालिः । तकारः शिवः लकारः शिवा ततः सम्बन्धार्थेऽणि ताल इति शाण्डिल्यः । आदिब्रह्महस्ततलं तलमित्युच्यते । "तस्मात् तेन निर्वृत्तम्" इत्यर्थेऽणि ताल इति दत्तिलः । तकारः संगीते परिश्रमः तस्य आलः पर्याप्तिर्यस्मादसौ ताल इति कोहलः । आल् इति "अलं भूषणपर्याप्तिशक्तिवारणेषु" इत्यतः पर्याप्त्यर्थाद्भावे घञ् सन्निपाशक्या तालानां पातभागविधौ शंसतेत्यादिवर्णप्रतीकग्रहणवत्ताशब्देन ताल उच्यते । तमलति भूषयतीति तालः इति मतङ्गः । तं शब्देनान्त उच्यते । गानारागतालानामादिवर्णसिद्धभरतनाम्नः शास्त्रस्य तं अन्ते पर्यवसानम् अलति वारयतीति ताल इति विशाखिलः । तः पुच्छः अंतिमप्रदेश इत्यर्थः । भरतस्यांतिमप्रदेशं स्वावस्थानादलति भूषयतीति ताल इति कम्बलः । ता शिवयोः कृपा तां लाति दत्ते तालविद्भ्यः इति ताल् इत्यौद्भटः । अथ च तकारः शिवः लकारः शक्तिः ततः सम्भूतः इत्यर्थेऽणि तालः । सर्वहस्ततालाभ्यां निर्वृत्तः । तेन निर्वृत्तम्" इत्यर्थेऽणि वा तालः । तलशब्दस्याधस्स्वरूपवाचित्वाच्छिवस्याधोवयवभूताध्र्योर्भव इति वा तालः । तालं शिवयोः स्वरूपं तस्मात्पूर्ववदणि वा तालः । "तड आघाते" इत्यस्माद्धातोरधिकरणे घञि डलयोरभेदे च रङ्गभूरोष्टसम्पुटो वाद्यभाण्डकं च ताड्यन्तेऽस्मिन्निति वा तालः । सुब्राह्मण्यायां किल "गौरावस्कंदिन्" इति तवल्कारब्राह्मणे गीतमदारावस्कन्दिन्निति वक्तव्ये गीतमदारपदयोराद्यन्तवर्णग्रहणेन गौरावस्कंदिन्निति यथा निरुक्तिः । तथैव तशब्देनादिवर्णग्रहणात्तपनः लशब्देनान्तवर्णग्रहणाद्विमलश्चन्दः तपोः सम्बन्धीनि वा ताल्ः । ताशब्देन ताण्डवम् लशब्देन च लास्यम् आदिवर्णग्रहणात् आभ्यामुभाभ्यां द्वितोऽयमिति वैशेषिकेऽणि वा तालः । ताशब्देनादिवर्णोपादानात्ताल उच्यते सोऽस्मिन्तालीयत इत्यौणादिके द्वे वा तालः। तालो विततांगुष्टमध्यमान्तरालपरिच्छिन्नपरिमाणविशेषः तालांगाक्षरलघोरास्फालने तालप्रमाणान्तरालवानित्यशे आद्यचि कृते वा ताल इति च बहुधा व्युदपादयदांजनेयः । साम्नुपगीतमित्यत्र गीतस्य साधुत्वं नामाव्यक्तमधुरस्वरयोगेन