पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३८१ )
टीकाद्वयसहितम्।


 विदूषकः --एव्वं तिक्खणदण्डस्स किं ण भाइस्सदि। ( प्रहस्य आत्मगतम् ) एसो दाव उम्मत्तो । अहं पि एदस्स सङ्गेण ईदिस वण्णो विअ संवुत्तो ( प्रकाशम् ) भो, चित्तं क्खु एदं | [ एवं तीक्ष्णदण्डस्य किं न भेष्यति । एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः । भोः, चित्रं खल्वेतत् ]

 राजा--कथं चित्रम् ।

 सानुमती--अहं पि दाणिं अवगदत्था, किं उण जहलिहिदा- णुभावी एसो । [ अहमपीदानीमवगतार्था, किं पुनर्यथालिखितानु भाव्येषः]


नुप्रासाः वसंततिलकं वृत्तम् । एवं तीक्ष्णदण्डस्य किं न भेष्याति । एष तावदुन्मत्तः | अहमप्यैतस्य सङ्केनेदृशा वर्ण अक्षराणि यस्य स इव संवृत्तः | सोल्लुण्ठोत्तरदानेन सहजतयोन्मत्तावस्थायां पर्यवसानादिति भावः । भोः, चित्रं खल्वेतत् । 'राजा--युज्यते ' इत्यादिनैतदंतेन भ्रान्तिर्नाम संध्यन्तराङ्गमुपाक्षिप्तम् । तल्लक्षणं तु -- 'भ्रांतिर्विपर्ययज्ञानं प्रसङ्गस्याचिनश्चयात् ’ इति | अहमपिदानीमवगतार्था । चित्रमेिति ज्ञान सति रसो न विद्यते आदरभावात् । ततः रतोत्सवेऽपीति । अपिशब्दः प्रमत्तदसशा- यामष्नप्यनिर्दयत्वद्योतकः । सदयमेव दयासहितमेव । पीतं सुकुमारवस्तुनो दयाविषय- त्वाद्दंतक्षतादिकं न कृतमिति भावः । मयेत्यनेन नानाविधकरणप्रभुत्वं द्योत्यते । कमलो दरबंधनस्थं कमलोदरमेव बन्धनं बन्धनस्थान कारागृहमिति यावत् । तत्रस्थ्ं तत्राव स्थितिमंतं कारयामि । स्वस्य प्रभुत्वाकारयामीत्युक्तं न तु करोमीति । अत्र भ्रमरस्य कमलोदरवस्थानमनुकूलमेव कथं तीक्ष्णदंडे पर्यवस्यतीति नाशंकनीयम् । अनुभूद लोकोत्तरशकुन्तलामुखसौरभस्य कमलसौरभमेवोद्वेजकमिति कमलोदोदरवस्थानमेव कारागृहवस्थानमित्यभिप्रायः । तेन कमलात् शकुन्तलामुखस्यातिसुरभित्वं द्योत्यते । एष्ठवमित्यादि । तिक्खदंडस्स ण भाइस्सदि इयत्र क्वचिदासादेरिति पंचमीस्थाने षष्टी । " दंडोऽस्त्री शासने राज्ञां हिंसायां लगुडे दमे " इति वैजयन्ती । एसो इत्यादि । ईदृशोऽस्मि सवृत्तः राज्ञ इव स्वस्यापि चित्रफलके शकुन्तलाबुद्धिरेव जातेत्यर्थः। अहमितेि । यथा लिखितानुभावी लिखितां शकुन्तलामनतिक्रभ्या


१ दाणिं (इदानीं ) इति क्व० पु० पाठः । २ संसर्गेण ईरिसोह्मि

( संसर्गेणेदृशोऽस्मि ) इति क्व० पु० पाठः ।। ३ अणवगदत्था

( अनवगतार्था ) इति क्व० पु० पाठः ।