पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३५२ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 सानुमती-पिअं मे। [ प्रियं में ]


तदा गोत्रेषु नामसु । ’ गौत्रं तु नाम्नि च ' इत्यमरः । स्खलितोऽन्य नामग्रहे कृतान्यनामग्रहः संश्चिरमतिकालं क्रिडया लज्जया विलक्षो विस्म यान्वितो भवति । ' विलक्षो विस्मयान्वितः ' इत्यमरः । अहं राजा दुष्यन्तो ममाप्येतादृश्यवस्तथेति स्वमनस्येव सविस्मय इत्यर्थः । अत्र पश्चात्तापादिके कारणे वक्तव्ये यत्तत्कार्यस्य रम्यद्वेषादेर्वचनं तत्पर्या योक्तम् । काव्यलिङ्गं च । पुराप्रेति प्रप्रेति क्षक्षीति छेकवृत्त्यनुप्रासौ । वृत्तमनन्तरोक्तम् । प्रियं मे । अस्मदैमनस्यादिति व्यधिकरणे पञ्चम्यौ ।


माल्यैः प्रजभिर्वा प्रत्यहं न सेव्यते । चित्तपारवश्यान्नन्वास्यते । सार्वलिकतदेक तानचित्तत्वेन कदा वा शकुन्तलप्राप्तिर्भविष्यतीति चिन्ताजनितालसतया ताभिः सम मिष्टानिष्टालोचनमपि न क्रियत इति यावत् । अनेन जडता ध्वनिता । तदुक्तं " इदमिष्टमनिष्टं तदिति वेति न किंचन । नेतरं भाषतै प्रश्ने नेक्षते न शृणोति च । यत्र ध्यायति निःसंज्ञ जडत सा प्रकीर्तिता ॥ इति । क्षपाः सौधादिविविधको डोचितचंद्रमलयानिलीकृत रात्रीः । शय्याप्रान्तनिवर्तनैः विप्रलंभजनितस्रवगसन्तापे नान्यकान्तालिंगनाभान्यान् शय्याआंतपयवर्तनैः । उन्निद्र एव अरया निदाशून्य एव विगमयति न तु तत्ताट्टक्कामलाविदग्धकामिनीभिः समं चंदनाद्यंगलेफ्नकुसुमधारण सभापणालिगचुवनविविधसुरतप्रणयकलहात्मगौरवमानरक्षणक्षणवैसुख्यपदप्रणामानिमिप प्रेमवीक्षणादिनानाकीडापरिश्रमजनितग्लन्यवशखारसिकप्रप्तनिद्रया क्षपाः विगमयतीति भावः । शय्यापर्यावर्तनैः सन्तापः तेन च व्याधिलक्षणा मनसा पीडा निद्राभावेन विपादः चिन्ता वा । क्षपा इत्यनेन इंदुमलयानिलादिवौल्यम् अनेन व्याधिर्नामवस्थः सूचिता । तदुक्तं " अतीष्टसंगमाभावाव्याधिः संतापलक्षणः " इति । अंतपुरैभ्यः अंतः पुरकान्ताभ्यः आकारगोपनार्थे दाक्षिण्येन सर्वासु समभावप्रकटनेन यदा यस्मिन्काले उचितां तस्कलयोग्यां वाचं वचनम् । न तु वाक्यम् । तीव्रपदकदंवात्मकत्वात् ग्लन्या वचनमात्र उच्चरितमिति भावः । ददातीति वर्तमानव्यपदेसशेनोन्मादप्राप्त्या बुद्धिपूर्वको चारणाभावादुत्कमेव पुनः पुनर्वदतीति व्यज्यते । तदा तस्मिन्काले गोत्रेषु नामधेयेषु स्खलितः विपर्यंस्तः अयथावादी शकुन्तलानामवादीत्यर्थः । चिरं श्रीडाविलक्षः श्रीडथ लज्जया विगतलक्षः कर्तव्यशून्य इति भावः । चशब्दः क्रियासमुच्चयार्थः। अंतःपुराण दाक्षिण्यादनुचितवक्प्रदानादवहित्थम् । गोत्रस्खलनेन मोहः तेन चोन्मादः । तदुक्तं " सर्वावस्थासु सर्वत्र तन्मनस्कतया सदा । अतस्मिस्तदिति भ्रान्तिरुन्मादः परिकीर्तितः ॥ " इति । क्रीडावैलक्ष्यणेन शंकाविवोधो वा । अनेन श्लोकेन गोत्र स्खलितं नाम सन्ध्यंगमुक्तम् । तदुक्तं "तद्गोत्रस्खलितं विदुः। प्रियानुस्मरणादन्याह्वानम न्यभिवानतः ॥ " इति । स्फुटमेवैतत् । पिअं मे इत्यादि । अस्मात्कारणात् प्रभवतः