पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( २९३ )
टीकाद्वयसहितम्।


यावन्नियोगमनुतिष्ठामि । ( परिक्रम्यावलोक्य च ) एष देवः

प्रजाः प्रजाः स्वा इव तन्त्रयित्वा
निषेवतेऽशान्तमना विविक्तम् ।
यूथानि संचार्य रविप्रतप्तः
शीतं दिवा स्थानमिव द्विपेन्द्रः । ५ ।


वृत्तिर्वर्तनं यस्य तस्य राज्ञः । अपिशब्दः समुच्चये | एष धर्मः स्वीकृत- भूमिभारत्वम् । अत्र भारो रक्षणरूपः सार्वकालिकत्वलक्षणसमानधर्मस्य सकृद्युक्तपदेन रात्रिंदिवपदेन सदैवपदेन चोक्तेर्मालाप्रतिवस्तूपमा । दुष्य न्तस्येति विशेषे वक्तव्ये सामान्यवचनादप्रस्तुतप्रशंसापि । श्रुत्यनुप्रासः) इन्द्रवज्रा वृत्तम् । नियोगं स्वाधिकारं मुनिनिवेदनलक्षणम् । प्रजा इति । प्रजाः स्वापत्यानीव स्वाः प्रजाः स्वीयलोकांस्तन्त्रयित्वा संव्यवहार्याशा- न्तमना उद्विग्नमनाः सन्विविक्तं विजनं स्थानं निपे(षे)वते । ‘प्रजा स्यात्सं ततौ जने ? ‘ विविक्तौ पूतविजनौ ? इति चामरः । संचार्य चारयित्वा । चर गतिभक्षणयोः’ रविप्रतप्तः सूर्यप्रतप्तो द्विपेन्द्रो गजो दिवा शीतं स्थानमिव । उपमयोश्छेकवृत्त्यनुप्रासयोश्च संसृष्टिः | श्रुत्यनुप्रासः । उपे- न्द्रवज्रावृत्तम् । अत्र दिवेति रात्र्यादिसमयं निवर्तयन्रवितापस्याधिक्यं द्योतयति |शान्तमनाः ? इति तु च्छेदे रवितप्त इत्युपमानेन सह


चक्रवालपर्यंतमाज्ञासंपत्तिर्ध्वन्यते । गन्धवहः पवनः रात्रिंदिवमित्यचतुरेत्यादिना निपातः । कालाध्वनोरत्यन्तसंयोगे" द्वितीया । प्रवाति अविश्रांतं वाति । वर्तमानव्यपदेशेन सर्वजनानुभवप्रसिद्धिरुक्ता । पवनसदृशार्थकथनेन पवनगतेः यथा सर्वत्रानिर्गलत्वं तथा दुष्यन्तरथगतेः सर्वत्राकुंठितत्वं प्रकाश्यते । शेषः फणींद्रः । सदा आहितभूमिभारः । आहितः निहितः भूमिभारो यत्र स तथोक्तः । शेषस्येव राज्ञोऽपि भूमिभरणसामर्थ्यं ध्वनितम् । षष्ठांशवृत्तेः षष्ठांशः रक्षाशुल्कषड्भागः वृत्तिजीवनं यस्य स तथोक्तः । एप(ष) लेकतंत्राधिकारे विश्रामाभावः। धर्मः व्यापारः अत्र पदानां सदृशार्थादुच्चया सालंकारः तदुक्तं ‘‘ बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ " यावदित्यादि । नियोगं शासनम् । प्रजा इति। प्रजाः जनान् स्वाः स्वकीयाः प्रजा इव अपत्यानीव । तंत्रयित्वा तत्तदुचितमार्गे व्यापार्य । शांतमनाः स्वस्थचित्तः । विविक्तं विजनस्थानम् । एकान्तमंतःपुरमित्यर्थः । निषेवते नितरामाश्रयते वर्तमानव्यपदेशेन विविक्तस्थलाश्रयकालस्याव्यवधानं व्यज्यते । प्रातःसायंकालयोः राज्यपालनादिकृत्यकरणचिन्तया मनः शांतं न भवति । मध्याह्नकाले