पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २८० )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


 गौतमी-जादे परिहीअदि गमणबेला' । णिबत्तेहि पिदरं । अहवा चिरेण वि पुणो पुणो एसा एव्वं मन्तइस्सदि । णिवत्तदु भवं । [ जाते, परिहीयते गमनवेला ? निवर्तय पितरम् । अथवा चिरेणापि पुनः पुनरेषवं मन्त्रयिष्यते । निवर्ततां भवान् ।]
 काश्यपः-वत्से, उपरुध्यते तपोऽनुष्ठानम्।
 शन्कुतला-( भूयः पितरमीश्लिष्य) तपश्चरणपीडितं तादसरीरं। ता मा अदिमेत्तं मम किदे उक्कण्ठं। [ तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठस्व ]

शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् ।
उटजद्वारविरूढं नीवारबलिं विलोकयतः ।। २१ ।।

गच्छ। शिवास्ते पन्थानः सन्तु ।

( निष्क्रान्ता शकुन्तला सहयायिनश्च । )


प्रकरणानुसाराद्वयसीति गम्यते । इदमाश्रमविशेषणत्वेनापि । पुनःपुनरेवैवं मन्त्रयिष्यति । निवर्ततां भवान् तपश्चरणेन पीडितं तातशरीरम् । तस्मान्मम कृते । अतिमात्रमुत्कण्ठा । मेति निषेधे । उत्कण्ठयालमित्यर्थः । ‘क्त्वस्तुमत्तूणतुआणाः' इति क्त्वाप्रत्ययस्य तुमादेशः |शममिति । मम काश्यपश्य ! बाल्यादारभ्य त्वत्कृतपरिपालनस्येत्यर्थान्तरसंक्रान्तत्वम् । एवंभूतस्य शोकः कथं शममेष्यति । कष्टेन शममेष्यतीत्यर्थः । ईदृशस्त्वया तादृशगुणवत्या तथा सकलनिपुणयेत्यादि द्योतयतेि । पूर्व रचितो रचितपूर्वस्तम् । नीवारैस्तृणधान्यैर्वालिं पूजां विलोकयतः । कीद्दशं बलिम् । उटजद्वारे विरूढं संजातम् । ‘विरूढस्तु संजातांकुरेितेऽन्यवत् '


शमनित्यादि । शमं शांतिं मे रागद्वेषादिरहितस्य मे इति यावत् कथं केन हेतुना ।


१ दे ( ते ) इत्यधिकं क्क० पु० २ मे इत्याधिकं क्क० पु० । ३ भूओषेि

( भूयोऽपि ) इत्यधिकं क्क पु० । ४ तादस्स ( तातस्य ) इति क्क० पु०

पाठः । ५ ता मा इति नास्ति क्व० पु० । ६ उक्कंठिदं हविस्सदि

(उत्कंठितं भविष्यति ) इति क्कo पु० पाठः ।