पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
(२३५)
टीकाद्वयसहितम्।

(प्रविश्य)

 प्रियंवदा-सहि, पकिदिवक्को सो[१] कस्स अणुणअं पडिगेण्हदि । किं[२] वि उण साणुक्कोसो किदो। [सखि, प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किमपि पुनः सानुक्रोशः कृतः]
 अनसूया-(सस्मितम्) तस्सिं बहु एदं पि। [३]कहेहि । [तस्मिन्बह्वेतदपि । कथय]
 प्रियंवदा–जदा[४] णिवत्तिदुं ण इच्छदि तदा विण्णविदो मए[५] । भअवं, [६]पढमं त्ति पेक्खिअ अविष्णादतब[७]प्पहावस्स दुहिदुजणस्सभअवदा एक्को अवराहो मरिसिदव्वोत्ति । [यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । भगवन, प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य बृहतृजनस्य भगवतैकोऽपराधो मार्षितव्य इति]
 अनसूया-तदो तदो । [ततस्ततः]


स्ताग्रशब्दमेवाहुः । पुष्पोच्चयं रूपयतीति पूर्ववत् । सखि, प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किंचित्पुनः सानुक्रोशः सकृपः कृतः । 'कृपा दयानुकम्पा स्यादनुक्रोशोऽपि' इत्यमरः । तस्मिन्वह्वेतदपि । कथय । यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । भगवन्, प्रथम इतेि प्रेक्ष्य विचार्य । अत्र कोपः कर्तुं [युक्तो] न वेति विचार्येत्यर्थः । अवज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षित्व्य इति । अयमर्थः-यथा सा कण्वदुहिता तद्वत्तव दुहिता । अथ च दुहिता बालिकातएवाविज्ञाततपःप्रभावा । अतोऽस्याः प्रथम एकोऽपराध इति


त्युच्यते । सानुक्रोशः दयासहित इत्यनेन हर्षात्स्मितम् । तस्मिन्तादृशसुलभकोपे ऋषौ


  1. कस्स वा सो (कस्य वा सो) इति क्व० पु० पा० ।
  2. किंच (किंचित्) इति क्व० पु० पा० ।
  3. कहेहि कहेहि (कथय कथय) इति क्व० पु० पाठः ।
  4. अणुर्णादो वि (अनुनीतोऽपि) इत्य० क्व० पु० ।
  5. अत्र अनसूया-कहंविअ (कथमिव) प्रियंवदा इत्यधिकं क्व० पु० ।
  6. पुढमभात्तिं अवक्खिअ (प्रथमभक्तिमवेक्ष्य) इति क्व० पु० पा० ।
  7. तव (तयः) इति क्व० पु० नास्ति ।