पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( २१५ )
टीकाद्वयसहितम्।


नुदन्ति तैः क्लान्तिहरैः । यानि दृष्टानेि स्पृष्टान्याघ्रातानिं स्वयं क्लमच्छिन्दि तज्जन्यो वटुः सुतरां क्लुमच्छिादिति भावः । उतेति विकल्पे । ‘ मणिबन्धादाकनिष्ठं करस्य करमो बहिः ' । तद्वदूरू यस्यास्तत्संवोधनम् । अत्रानुवृत्तत्वकोमलत्वादयः सामान्यधर्माः । ते पद्मताम्रौ कुशेशयालोहितौ । पदि मातीति पद्मम्ञ्ज । तेन सह साम्यं नास्तीति ताम्रत्वमात्रेण साम्यम् । अतएव नारविन्दादिपदोपादानम् । करभोरुपद्मताम्राविति पदाभ्यां चरणयोः संवाहनयोग्यत्वं ध्वनितम् । चरणावङ्के निधायेत्यनेन तस्याः सौभाग्यसर्वंकपत्वं स्वस्य धन्यतरत्वं च सूचितम् । यथासुखमित्यनेन च स्वस्य संवाहनकलाकौशलं ध्वनितम् । संवाहयामि संवाहनेन खेदमपनयामीत्यर्थः। नालिनीदलस्य तालवृन्तत्वारोपे आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम इतेि परिणामालंकारः पूर्वोत्तरार्धयोर्विकल्पादलंकारः । ' तुल्यवलरूविरोधे विकल्पः ’ इतेि तल्लक्षणात् । काव्यलिङ्गपरिकरोपमावृत्यनुप्रासाश्च । वसन्ततिलका वृत्तम् । अनेनोपन्यासो नामाङ्गमुपक्षिप्तम् । तल्लक्षणं दशरूपके-' प्रसादनमुपन्यासः ’ इतेि । अनेन माला नाम भूषणमप्युपक्षिप्तम् । तल्लक्षणं तु-' माला स्याद्यदभीष्टार्थप्रका


नोदिभिरिति । नलिनीदलतालवृन्तैः आर्द्रवातजलसंपर्कात्सशीकरानित्यर्थः। संचारयानि यथासुखं सर्वावयवेषु सम्यक् चालयामि क्रिमिति प्रश्ने। वर्तमानव्यपदेशेन तत्तत्कर्मकरणप्रवृत्तिः सूच्यते । न तु वाइमात्रव्यवहार इति भावः। उत पक्षान्तरे। फरभोर्विति संबोधने । करभाविव करवहिर्भागाविव ऊरू यस्याः सा तथोक्ता । तदुक्तम् " मणिबन्धादाकनिष्ठं करस्य करभो वहिः ” इति । करभोर्वित्यनेन पादसंवाहने ऊरुयुगलस्यात्यन्तमनुकूल्यं प्रदर्शर्यते । तेन च खहस्तसद्भावस्य त्वदूरुयुगलस्पर्शेन साफल्यमिति भावः । अंके निधायेत्यनेन नववन्धमोचनेच्छा सूच्यते । यथामुखं मुखमनतिक्रम्य । अनेन मयैव बलात्संभोगादौ प्रवृत्तिर्न क्रियते किंतु यावता कालेन सुरतप्रस्ताभङ्गीकारः क्रियते तावत्संचाहयामीति द्योत्यते । अथ उक्तं यथासुखमिति तेन च खस्य कामशात्रवैदुश्यप्रकटनेन कन्याविस्रंभणोपायः प्रदर्शितः । तदुक्तं द्वितीयाध्याये तद्यथा “ संगतयोखिरात्रमधःशय्या ब्रह्मचर्यमक्षारलवणाहारस्तथा सप्ताहं सतूर्यमंगलं स्नानं प्रसादनं सहभोजनं च तथा प्रेक्षासंवन्धिनां पूजनं च तस्मिन्नेव चाहनि मृदुभिरुपायैनचिकस्तामुपक्रमेत् । ” इति । अन्ये वात्स्यायनव्यतिरिक्ता आचार्यास्तु कन्यया सह त्रिरात्रं वचनमपि न वक्तव्यमिति मन्वते । बाभ्रव्यास्त्वाहुः त्रिरात्रमेवावचने हि स्तंभमिव नायकं पश्यन्ती कन्या निर्विद्यते परिभवेच्च तृतीयामिव प्रकृतिमिति । वात्स्यायनस्तु उपक्रमेत विश्रंभयेच्च न तु ब्रह्मचर्यमितिवत्तत उपक्रममाणश्च न प्रसह्य किंचिदाचरे -