पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/११८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( १०३ )
टीकाद्वयसमेतम्


प्रियंवदा-अलं विआरिअ । अणिअन्तणाणुओओ तवास्सिअणो णाम । [ अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम ]
राजा--इति सखीं ते ज्ञातुमिच्छामि ।

वैखानसं किमनया व्रतमा प्रदाना-
द्व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमेव मदिरेक्षणवल्लभानि-
राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥ २६ ॥


उभयानुभावत्वादधोमुखस्य । पुनरापि प्रष्टुकाम इवार्यः । अलं विचार्य । अनियन्त्रणानुयोगोऽप्रतिबन्धप्रश्नः । ‘ प्रश्नोऽनुयोगः पृच्छा च ' इत्यमरः । तपस्विजनो नाम । ‘णिओओ ’ इति पाठे नियोग आज्ञा । इति सखीं ते ज्ञातुमिच्छामि । इतीति किम् । वैखानसमिति । वैखानसं तापस्विनं तपस्विसंबन्धि तपावेनानवीसलक्षणम् | मदनस्थ व्यापारः स्वविषये प्रवृत्तिर्नानाविधालिङ्गनाद्य ( द्यं ) तेन (?)। तदुक्तं महिमभट्टेन– यतः सर्वेष्वलंकारेष्वयमाजीवितायते | सा च प्रतयिमानैव तद्विद्वान्स्वदतेतराम् ॥ ' इति । तथा-- 'वाच्याप्रतीयमानोऽर्थस्तद्विद्वान्स्वदतेऽधिकम्। रूपकादितरः कप्रकारा' (?)। न तु 'वरमधातुविसर्गोऽत्राभिप्रेतः (?)। तद्रोधि व्रतं. नियमादि । प्रकृष्टायोत्तमप्रकृतये राज्ञे दानं तस्मात् । प्रदानादिविशिष्टं विदं मर्यादीकृस्य । निषेवणीयम् । किमिति प्रश्ने किम् । आहो अथवा । ’आहो


स्पंदनादि तन्नियतधर्मेण साधु तर्कितम्। अलमिति ।अलं प्रतिषेधे " अलं खल्वोः प्रतिषेधयो: " विचारो मास्वित्यर्थः । विचाराभावे हेदुमाह-अनियंत्रण: अनियमः असंकुचित इति यावत् । अनुयोगः प्रश्नो यस्मिन् स तथोक्तः पुनः पुनः पृच्छतीति रागद्वेषादेरसंभवादिति भावः । नाम प्रसिद्धौ । सखमियादि सखीमित्यनेन शकुन्तलाया भावममज्ञेता तवास्ति सखीत्वात् । शकुन्तलाहृदि स्थितं गोपनयमिति तव नास्ति तस्मात्वां पृच्छामीति भावः ज्ञातुमिच्छामीत्यनेन स्वरूपं तु ज्ञातमेव किं त्वेषानुरूपवराभिलाषिणी वा काश्यपस्यानुरूपवरजादौ वा अननुरूपमुनिषु वा कन्याप्रदानमिति इतुमिच्छामीत्यर्थः । तथैवाह । वैखानसमित्यादिना । मदनस्य मन्मथस्य व्यापाररोधि मन्मथव्यापारनिघातकम् । यस्य कस्यचिन्मुनेर्भार्या भवति चेत्तदा जीर्णपर्णफलमूलादिपरिमिताशनवत्तया मदनाजनकत्वम् मदनव्यापारास्तु जलक्रीडापुष्पापचयसौभाग्यो-