पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरो-
र्येनाक्रान्तं क्षपिततमसा मध्यमं धाम विष्णोः ।
सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै-
र्दूरारोहो भवति महतामप्यवभ्रंशहेतुः ॥ ८८ ॥
पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः
प्लुष्टं भानुकरैरिदं त्रिभुवनं ज्योत्स्नाभरैः सिञ्चति ।
सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो
धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ ८९ ॥
धवलयति समग्रं चन्द्रमा जीवलोकं
किमिति तिजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।
भवतु विदितमेतत्प्रायशः सज्जनानां
परहितनिरतानामादरो नात्मकार्ये ॥ ९० ॥
न चन्द्रमाः प्रत्युपकारलिप्सया करोति भाभिः कुमुदावबोधनम् ।
स्वभाव एवोन्नतचेतसामयं परोपकारव्यसनं हि जीवितम् ॥ ९१ ॥
दिनकरतापव्यापप्रपन्नमूर्छानि कुमुदगहनानि ।
उत्तस्थुरमृतदीधितिकान्तिकलासेकतस्त्वरितम् ॥ ९२ ॥
निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निःफलैव दृष्टा प्रहृष्टा नलिनी न येन ॥ ९३ ॥
उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्भिरुद्यत्प्रभैः
शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि ।
यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते
तावच्चन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ९४ ॥
अथ शुक्लप्रतिपच्चन्द्रस्य ।
त्रिनयनजटावल्लीपुष्पं निशावदनस्मितं
ग्रहकिसलयं संध्यानारीनितम्बनखक्षतम् ।