पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२
काव्यमाला ।

 यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं
  यन्मन्दैरुपवीजनं च पवनैः कृत्यं तदुर्वीरुहाम् ॥ ४० ॥
  प्रत्यग्रैः पुष्पनिचयैस्तरुर्यैरेव शोभितः ।
  जहासि जीर्णांस्तानेव किं वा चित्रं कुजन्मनः ॥ ४१ ॥
 रोलम्बैर्न विलम्बितं विघटितं धूमाकुलैः कोकिलै-
  र्मायूरैश्चलितं पुरैव नभसा कीरैरधीरैर्गतम् ।
 एकेनापि सपल्लवेन तरुणा दावानलोपप्लवः
  सोढः कोऽपि विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः ॥ ४२ ॥
  पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।
  धन्या महीरुहो येभ्यो विमुखा यान्ति नार्थिनः ॥ ४३ ॥
  छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।
  मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ४४ ॥
 भुक्तं स्वादु फलं कृतं च शयनं शाखाग्रजैः पल्लवै-
  स्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः ।
 विश्रान्ताः सुचिरं परं सुमनसः सन्तः किमत्रोच्यते
  त्वं सन्मार्गतरुर्वयं च पथिका यामः पुनर्दर्शनम् ॥ ४५ ॥
 जातो मार्गे सुरभिकुसुमः सत्फलो निम्नशाखः
  स्फीताभोगो बहुलविटपः स्वादुतोयोपगूढः ।
 नैवात्मार्थं वहति महतीं पादपेन्द्रः श्रियं ता-
  मापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ४६ ॥
 मूलं योगिभिरुद्धृतं निवसितं वासोर्थिभिर्वल्कलं
  भूषार्थी च जनश्चिनोति कुसुमं भुङ्क्ते क्षुधार्तः फलम् ।
 छायामातपिनो विशन्ति विचिता निद्रालुभिः पल्लवाः
  कल्पात्स्वस्य तरोरिवेह भवतः सर्वाः परार्थाः श्रियः ॥ ४७ ॥
 भ्राम्यद्भृङ्गभरावनम्रकुसुमश्च्योतन्मदोद्गन्धिषु
  छायावत्सु तलेषु पान्थनिचया विश्रस्य गेहेष्विव ।