पृष्ठम्:अद्भुतसागरः.djvu/३४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
उल्काद्भुतावर्त्तः ।

 यदा विनिपतन्त्युल्काः कुन्देन्दुरजतप्रभाः ।
 राज्ञो विजयमानष्टे सुभिक्षक्षेमकारिका ॥
 दधिकाञ्चनवैदर्यचन्द्रस्फटिकसन्निभाः ।
 उल्कारजतसंकाशाः क्षेममाहुर्महीपतेः ॥
 अग्निवर्णाश्च सुस्निग्धा रूप्यस्फटिकसन्निभाः ।
 पतन्ति वर्षमाख्यान्ति महोल्काः सद्य एव तु ॥
वैदूर्यवर्णस्फटिकप्रकाशाः सुवर्णवर्णा रजतप्रभाश्च ।
याश्चन्द्रवर्णादधिकप्रकाशास्ताः क्षेममाहर्विजयं च राज्ञः ॥
वैदूर्यवर्णासु वदन्ति कृत्स्नं क्षेमं सुभिक्षं स्फटिकप्रभासु ।
अग्निप्रकोपं कनकप्रभासु रक्तासु संग्राममुदाहरन्ति ॥
 श्यामा रूक्षा च विध्वस्ता शस्यपीडावहा मता ।
 चन्द्रमण्डलवर्णा या पावकार्चिःप्रभाऽथ वा ॥
 उल्का विनिपतेद्यत्र युवराजवधं वदेत् ।

वराहसंहितायाम् ।

 श्यामारुतनीलाऽसृग्दहनासितसन्निभा रूक्षा ।
 सन्ध्यादिनजा वक्रा दलिता च परागमभयाय ॥
 शुक्ला रक्ता पीता कृष्णा चोल्का द्विजादिवर्णाघ्नी ।
 क्रमशश्चैतान् हन्युर्मूर्धोरःपार्श्वपुच्छस्थाः ॥

 एताः शुक्लादिवर्णा उल्का यथाक्रमं कूर्मविभागोक्तक्रमेण मूर्धोरःपार्श्वपुच्छस्थान् जनपदान् हन्युः । बार्हस्पत्ये ।

 हिनस्ति शुक्ला शीर्षस्था मध्यस्थान् क्षतजप्रभान् ।
 पीता वैश्योपघाताय शूद्रान् हन्यात् सितेतरा ॥

स्फुलिङ्गाद्यशुभलक्षणयुक्तोल्का शुल्कादिवर्णा विप्रादिनाशिनी बोद्धव्या ।