पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशम् काण्डम्

प्राप्तव्यत्वेन उच्पमानाः| वचेः कर्मणि विच्| सर्वे लोकाः भूम्यन्तरिक्षस्वर्गाद्या: रामाप्याः सम्यग् आप्तुम् अर्हाः| सर्वलोकावातिः अस्यौदनस्य फलम् इत्यर्थः| पुनरपि अस्य महिमानम् आह|

यस्मिनसमुद्रो द्यौर्भूमिस्त्रयोवरपरम् ष्रिता: ||२०|| यस्मिन्| समुद्रः| द्यौः| भूमिः| त्रर्य:| अघर अपरम्| ष्रिता:||२०|| यस्मिन्नोदने समुद्रः उदधिः द्यौः आकाशः धुलोको वा भूमिः प्रुथिवि एते त्रयः अवरपरं ष्रिता:| एकः अवरः अघस्ताद् भवति अन्यः यरस्ताद् यथा भवति तत् अवरपरं| उन्नराधरभावेन स्थिता इत्यर्थः|| सर्वजगत्कल्पनास्प्दावलक्षणं माहात्म्यम् अस्य दर्शयति||

यस्य देवा अक्ल्पन्तोच्छिष्टे षडशीतयः ||२१|| यस्य| देवाः| अकल्पन्त| उत् अशिष्टे| पट्| अशीतयः ||२१|| यस्य ओदनस्य उच्छिष्टे यागावशिष्टे अंशे षडशीतय: षङुणिताशीतिसंख्याका देवा अकल्पन्त समर्था वीर्यवन्तः अभवन्| अथ वा| कल्पिरन्तर्णीतण्यर्थः| सर्वे जगद् अकल्पयन्| तथा च अग्रे समाग्त्रास्यते| "उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः" [११।९।१] इत्यादिना| तेन ओदनेन सर्वे लोकाः समाप्या इति संबन्धः|| उक्त्ं माहात्म्यं गुरूमुखात् ग्न्यातव्यम् इत्यमिप्रेत्य शिप्यप्रक्ष्न्म् उद्मावयति||

तं त्वौदुनस्य प्रुच्छामि यो अस्य महिम महान् ||२२|| तम्| त्वा| ओदनस्य| प्रुच्छामि| यः| अस्य| महिमा| महान् ||२२|| हे गुरो त्वा त्वाम् ओदनस्य तं महिमानं प्रुच्छमि| अस्यौदनस्य यो महिमा महान् अधिकतरः|| तत्र प्रतिवचने वर्नीयं[दर्शयति]|| स य ओदनस्य महिमान विद्यात् ||२३||