एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथर्वसंहिताभाष्यं इत्थम् ओदनस्य देवतारुपाणि अङ्गानि परिकल्प्य तत्साधनेध्वपि देवतारुपत्वं संपादयति ||
चक्षुर्मुसलं काम उलूखलम् ||३|| चक्षुः| जुसलम् |कामः |उलूखलम् ||३|| दितिः शूर्पमदितिः शूर्पग्राही वातोपानविनक् ||४|| दितिः|शूर्पम् |अदितिः |शूर्पsग्राही| वाताः| अप| अविनक् ||४|| अस्य उश्र्त्नमहिमोपेतस्य ओदनस्य उपादानभूतव्रीह्यननार्थे यन्मुसलं तच्चक्षुः चक्षुरिन्द्रियम् |यत् उलूखलं स कामः अभिलावः |मुसलोलुखले हविरवहननार्थे चक्षुरादिरुपेण भावनीये इत्यर्थः || दितिः असुरमाता सैव परापवनार्थं शूर्पम् | अदितिः देवमाता सा शूर्पग्राही तस्य शूर्पस्य ग्राहीत्री | या शूर्पेण परापुनाति सा अदित्यात्मना भावनीयेत्यर्यः | वातः वायुः अपाविनक् व्रीहिभ्यस्तण्डुलानां विवेचयिता अभवत् | विवेचयितरि वायुदबुद्धिः कार्येत्यर्थः| अत एव तैग्तिरीयके "वायुर्वो विविनत्तु" इति भन्त्त्रवर्णः [ तै• सं •१ •१• ५• २ ] | विचिर् पृथग्भावे | अस्मात् लङि रुधादित्वात् श्र्नम् | "हल्रङयाठभ्यः" इति तिलोपे "चोः कुः " इति कुत्वम् || ओदनस्य विराडात्मना उपासनम् अभिधित्सुस्त्तत्संबन्धिनां कणाट्रीना तन्तद्वस्त्वात्म्क्त्वेन तस्य ओदनस्य सार्वात्म्यं प्रतिपादयति || अश्र्वाः कणाः गावस्तण्डुला मशकास्तुषाः ||५|| अश्र्वा | कणाः | गावः | तण्डुलाः| मशकाः | तुषाः ||५|| कब्रु पालीकरणाः शरोभ्रम् ||६|| कब्रु | फली करणाः | शरः | अभ्रम् ||६||