पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशं काण्डम्| हे रुद्र यः पुरुषस्त्वया अभियातः अभिगतो निलयते पुरुतः स्यातुम् अशक्तः पलायते | यद्वा तत्रैव निलीनो भवति [ न च केवलं निलीनो भवति] प्रत्युत त्वां निचिकीषेति निकर्तु हिंसितुम् इच्छ्ति| निपूर्वः करोतिर्हिसने वर्तते| कॄञ् हिंसायाम् इति प्रकृत्यन्तरं वा| हे देव तम् अपकृतवन्तं जनं पश्चात् अनन्तरमेव त्वम् अनुप्रयुक्ष्ङे तत्कृतस्य अपकारस्य अनुप्रयोगं करोषि| यथापराधं दण्डयसीत्यर्थः| तत्र हष्टान्तः| विद्धस्य शस्त्रहतस्य पुरुषस्य पदनीरिव तदीयानि पदानि भूमौ निक्षिप्तानि नेयन्| यत्र शस्त्रुर्निवसति तावत्पर्यन्तं गमयन पुरुषः निलीनं शत्रुम् उपलभ्य प्रतिविध्यति तद्धद् इत्यर्थः ||

                                                       चतुर्थी ||
                            भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय |
                             ताभ्यां नमो यतभस्यां दिशीईतः || १४ ||
                            भवारुद्रौ | सSयुजा | समSविदानौ | उभौ | उग्रौ | चरतः | वीर्याय |
                             ताभ्याम् | नमः | यतमस्याम् | दिशि | इतः || १४ ||

भवश्च रुद्रश्च भवारुद्रौ | "देवताद्वन्द्वे च" इति पुर्वपदस्य आनङ् आदेशः | सयुजा सयुजौ समानं युश्चानौ मित्रभूतौ संविदानौ समानं जानानौ | ऍकमत्यं गतावित्यर्थः | विद् ने | अस्मात् संपूर्वात "समो गमृयुच्छि" इति आत्मनेपदस | तौ उभौ उग्रौ उङ्गर्णबलौ परैरप्रधृष्यौ सन्तौ वीर्याय | "कियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वाश्चतुर्थी | वीर्यम् वीरकर्म चरतः अनुतिष्ठत: | यद्वा उग्रौ दुष्प्रपर्षौ चरतः सर्वश्च वर्तेते | किमर्थम् | वीर्याय | तादर्थ्थे चतुर्थी | स्ववीर्यप्रकटनार्थम् | ताभ्यां भवारुद्राभ्यां नप्रोस्तु | दूरस्थयोरेव तयोर्नमस्कारः कर्तव्यः न संविधानम् अपेक्षणीयम् तस्यार्तीकरत्वात् इत्यभिप्रेत्याह यतमस्याम् इति | इतः |