पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशं कानण्डम्। तराधरदक्षिणाडद् आतिः " इति सप्तम्यर्थे आतिप्रत्ययः । उतशब्दःअपर्थे । दक्षिनोत्तरदिशोरवस्थिथाय ते तुभ्यम् नमः । कृण्म इत्यनुषङः । अभीवर्गात् अभितो वृज्यते गृहादिरूपेण परिच्छिद्यते इति अभीवर्गः अवकाशात्मक आकाशः। वृजी वर्जने कर्मनणि घञ् । " उपसर्गस्य घञ्यमनुशष्ये बहुलम् " इति दीर्गः । ताहशाद् दिवः ध्योतमानाद् आकाशात् परि त्वचेउपरिभागे।पञ्चभ्यपाङ्परिभिः" इति पञ्च्मी । " पञ्चम्याः परावध्यर्थे " इति विसर्त्रनीयस्य सत्वम।आकाशमन्डलस्य मध्ये अन्तरिक्षाय अन्तरा क्षान्ताय नियन्तृत्वेन अवस्थिताय ते तुभ्यं नमस्कुर्मः । " अस्मिन् महत्यर्णवेन्तरिक्षे भवा अधि " इति हि निगमान्तरम् ।

                                      पञ्चमी ॥
                      मुखाय ते पशुपते यानि चक्षूंषि ते भव।
                     त्वचे रूपय संहद्शे प्रतीनीनाय ते नमः॥ ५ ॥
               मुखाय । ते । पशुसपते । यानि । चक्षूंपि । ते । भव ।
                 त्वचे । रूपाय । सम् शे । प्रतीचीनाय । ते । नमः ॥ ५ ॥

हे पशुपते पशूनां पालयितर्देव ते त्वदीयाय मुकाय आस्याय नमोस्तु । हे भव एतत्संज्ञक देव ते तव यानि चक्षूंपि दर्शनसाधनानि इन्द्रियानि सन्ति तेभ्यो नमोस्तु । प्रतीचीनाय ग्रत्यगात्मरूपिणे ते तुभ्यं नमोस्तु । प्रतिपूर्वाद् अञ्चतेः " ऋत्विग्ं " इत्यादिना क्किन । "अनिदिताम्ं " इति नलोपः ॥ " विभाषाञ्चेरदिक्स्त्रियाम् " इति स्वार्थिकः खपत्ययः ॥

                                     षष्ठी ॥
               अङ्गेभस्त उदराय जिह्वाया आस्याय ते ।
              दुभ्द्यो गन्धाय ते नमः ॥ ६ ॥