एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१० अथर्वसंहिताभाष्ये
र्ववल्लोण्मध्यमैकवचने रूपम् । हे यस्ति अवघ्रती अवहननं कुर्वती नि जहि निबाधस्व । के पुनस्ते निहन्तव्या इत्याह य इति । इमाम् आन्मीयाम् प्रजां हन्तुं ये शत्रवः पृतन्यवः पृतनां सेनाम् आत्मन इच्छन्तः वर्तन्ते तान् नि जहीत्यर्थः । पृतनाशब्दात् "सुध आत्मनः क्यच् " । "क्याच्छन्दसि" इति उप्रत्ययः ।
"कप्यध्वरपृतनस्यर्चिलोपः" इति आकारलोपः । अपि च अवहननानन्तरं उद्धरन्ती मुसलं ऊर्ध्वे हरन्ती । "हग्रहोर्मः" इति भत्वम् । यजाम् अस्मदीयाम् ऊर्ध्वम् उद् ऊह उन्नतं स्थानम् उङ्गमय । श्ऱैष्ट्यम् गमयेत्यर्थः ॥
दशमी ॥ गृहाण ग्रावाणौ संकृतौ वीर हस्त आ ते देवा यञिया यञमगुः । त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥ १० ॥ गृहाण् । ग्रावाणौ । संऽकृतौ । वीर । हस्तै । आ । ते । देवाः । यञियोः । यञम् । अगुः । त्रयः । वराः । यतमान् । त्वम् । वृणीषे । ताः । ते । सम्ऽॠद्धीः । इह । राधयामि ॥ १० ॥ हे वीर वीर्यवन् अध्वर्यो हस्ते स्वकीये पाणौ सुकृतौ शोभनकर्माणौ ग्रवाणौ उलूखलमुसलौ गृहाण स्वीकुरु ।ग्रह उपादाने । "हलः करः शानञ्हौ " इति शानजादेशः । ते प्रसिद्धा यञिया यञर्हा देवास्त्वदीयं यञम् आ अगुः आगमन् । इण् गतौ । "इणो या लुङि " इति गादेशः । त्रयः त्रिसंख्याका चराः यजमानेन वरयितव्याः पार्थनीयाः पदार्थाः । कर्मसमृद्धिः तत्फलभूता एट्टिकी समृद्धिः आमुप्सिकी समृद्धिरिति ।हे यजमान त्वं यतमान् याहग्विधान् वरान्