पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाध्ये वा वरुणं देवं ब्रूमः स्तुमः । मित्रम् सर्वस्य मित्रभूतं देवं विष्णुम् व्या घनशीलं देवम् अथो अपि च भगम् भजनीथं देवम् अंशम् एतसंशं देवं विवस्वन्तम् पिवस्वसंज्ञे देवं ब्रूमः स्तुमः । ते नो मुञ्चनबहस इ ते समानम् । एते च आदेन्यास्तेतिीयेऽनुक्रयन्ते । ‘‘ नेित्रश्च वरु णश्च । धाता चार्यमा च । अंशश्च भगश्च । इन्द्रश्च विवस्वांश्चेत्येते ?’ [h• आ°१. १३०३]। आचार्धेस्तु द्वादशादित्यः परिगणिताः । धात्रर्यममित्राख्या वरुणांशभगा विवस्वदिन्द्रयुताः । पूषाढ्यपर्जन्यौ त्वष्टा विष्णुश्च भानवः मोक्ताः । इति । तृतीया । नूम दैवं सवितारं धातारमुत पूषणं । त्वष्टारमग्रियं ब्रूमस्ते न मुञ्चन्वंहसः ॥ ३ ॥ ब्रूमः । दैवम् । सवितारम् । धातारं । उक्त । पूषणम् । त्वरम् । अग्रिथम । बूमः । ते । नः । मुञ्चन्तु । अंहसः ॥ ३ ॥ देवम् दानादिगुणयुक्तं सवितारम् सर्वस्य प्रेरकं ब्रूमः स्तुमः । तथा धातारम् । उत्तशब्दः अप्यर्थे । पूषणमपि स्तुमः । अग्रियभ अने भवः अग्रियः । प्रथमगण्य इत्यर्थः । ॐ ‘‘ अग्राद् यात्' ’ ‘‘धुच्छों च → इति घच् प्रत्ययः । चिवाद् अन्तोदातवम् । तादृशं वष्टारं वू मः स्तुमः ॥ गतम् अन्यत् । चतुर्थी । गन्धर्वाप्सरसों घूमो अश्विना ब्रह्मणस्पतिम् । अर्यमा नाम यो देवस्ते न मुञ्चन्वंहसः ॥ ४ ॥ गन्धर्वेऽअप्सरसः। ब्रमः । अश्विन । ब्रह्मणः । पर्तिम् । अर्यमा । नार्म । यः। देवः। ते । नः। मुदेन्तु । अंहसः ॥ ४ ॥ गन्धर्वान्न अपरसश्च गन्धर्वाप्सरसः । ‘‘ अग्निर्गन्धर्वस्तथैौषधयो र १२०

  • ?
  1. S’ एवं, z Silvertदेवं ;ite प्रेरकं.