पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये मणिप्रदानम् इङ्गिडहोमं समिदाधानं वा कुर्यात् ॥ [ कौ० ६. २] ॥ “यो नः शयात्" इत्यनया अभिचारकर्मणि विद्युद्धतवृक्षजा एकादश समिध आदध्यात् ॥ [ कौ० ६.२] ॥ ७० तत्र प्रथमा । ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म् । अज॑स्रं घ॒र्ममी॑महे ॥ १ ॥ ऋ॒ऽवा॑नम् । वैश्वान॒रम् । ऋ॒तस्य॑ । ज्योति॑षः । पति॑म् । अज॑स्रम् । घ॒र्मम् । इ॒महे॒ ॥ १ ॥ तथा [ ऋतावानम् ] | ऋतम् इति सत्यस्य उदकस्य यज्ञस्य वा नामधेयम् । तद्वन्तम् । “ छन्दसीवनियौ” इति मत्वर्थीयो वनिप्छ । ऋतस्य यज्ञात्मकस्य ज्योतिषः तेजसः पतिम् स्वामिनम् अजस्रम् अनु- परतं संततं घर्मम् दीप्यमानम् एवंभूतं वैश्वानरम् अग्निम् ईमहे ईयामहे उपसीदामः । उपास्मह इत्यर्थः । यद्वा । ईङ् गतौ । देवादिकः + व्यत्य- लुक् । ४ ईमहे इति याज्ञाकर्मसु पठि- अभिलषितं फलं याचामह इत्यर्थः ॥ द्वितीया ॥ येन श्यनो तम् । स विश्वा॒ प्रति॑ चाकूप ऋतूंरुत् सृ॑जते व॒शी । य॒ज्ञस्य॒ वय॑ उत्ति॒रन् ॥ २ ॥ स । विश्वं॑ । प्रति॑ । च॒क्लृपे । ऋ॒तून । उत् । सृज॒ते । व॒शी । य॒ज्ञस्य॑ । वय॑ः । उ॒ऽति॒रन् ॥ २ ॥ स स: वैश्वानरोग्निः विश्वाः सर्वाः मजा: प्रति चकृपे तहत् फलं भापयितुं समर्थों भवति । ४ कृपू सामर्थे । अस्माच्छान्दसो लिट् हु । च वशी वशयिता स्वतन्त्रः सूर्यात्मना ॠतून वसन्ताद्यान् कालावयवान् उत् सृजते उद्हतान् निर्मिमीते । किं कुर्वन् । यज्ञस्य संबन्धि वयः अन्नं हविर्लक्षणम् उत्तिर ऊर्ध्वं देवान प्रापयन् ॥ ₹ BDKKRŚvc Cr विश्व: We with APPJ.