पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ अथर्वसंहिताभाष्ये न्द्रियवासनानां हार्थे तृतीया । मनसश्यावस्थानाद् अविनश्वरत्वम् । मनसेति स- अक्षवृत्त्युपरमेपि मनसो व्यापारसद्भावात् पृथगु- पादानम् । मनःसहिता अक्षवृत्ती: हविषा । भावपरोयं निर्दे- शः । हविष्ट्वेन । संकल्प्येति शेषः । या हविष्वसंकल्पे मनसः करणत्वात् तृतीया X । अमर्थेन । मर्त्यशब्देन क्षयिष्णवो बाह्यविषया उच्यन्ते । विनाशिविषयानासक्तेनेत्यर्थः । मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्तेर्निर्विषयं स्मृतम् । इति । तादृशेन विषयानासङ्गिना मनसा इन्द्रियवृत्तीर्हविष्वेन सं- कल्प्य अयजन्त । तथाविधा वयं तत्र तस्मिन् परमे । तस्य सर्वजगद- धिष्ठानत्वात् तस्य वा अधिष्ठानान्तराभावात् परमत्वम् । “स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि" इति [ छा० उ०७.२४.१] श्रुतेः स्वमहिमप्रतिष्ठे व्योमनि व्योमवद् असङ्गे सर्वगते चिदानन्दलक्षणे ब्रह्मणि विषये मदेम तुष्यास्म । न केवलं संतोष: अपि तु सूर्यस्य सुष्टुप्रेरकस्य परमात्मनः उदितौ परिपूर्णप्रकाशसाक्षात्कारेण अविद्यास्तमये सति तत् प्रकाशात्मकं तवं पश्येम स्वात्मतया अनुभवेम । * संप्रश्ने लिङ् ॥ नवमी || यत् पुरु॑षेण ह॒विषा॑ य॒ज्ञं दे॒वा अंत॑न्वत । अस्ति नु तस्मादोजयो यद् विहव्यैनेजिरे ॥ ४ ॥ यत् । पुरु॑षेण । ह॒विषा॑ । य॒ज्ञम् । दे॒वाः । अंत॑न्वत । अस्तिं । नु । तस्मा॑त् । ओजयः । यत् । वि॒ऽह॒व्ये॑न । ई॒जरे ॥ ४ ॥ सर्वातिशायिसर्वात्मक हिरण्यगर्भरूपफलप्रापकात् पुरुषमेधाख्यमहाऋतोर- पि सर्वात्मकब्रह्मस्वरूपावाप्तिफलप्रापको ज्ञानयज्ञः श्रेयान् इत्यनया अ भिधीयते । पुरुषमेधविधायकं वाक्यम् एवं वाजसनेयब्राह्मणे समाम्नाय - १ BBDR.SC. अंतुन्वत A correts its old reading of अत॑न्व° 10 अंतन्च'. We with K K Pv. BBDKKR SPPJVC अम्. A अस्तु "lhangeed to अस्थ. We with Cs and Sayana ३PJ CP अतन्वत. २