पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १२, सू° १२२.]२९५ षष्ठं काण्डम् । २५३ “देवाः पितरः ” इति तिस्रः यजमानस्य आर्षेयप्रवरणे वाचयेत् । 'प्रवरे प्रक्रियमाणे वाचयेद् देवाः पितर इति तिस्रः ” इति [वै ०१.२३ वैतानसूत्रात् ॥ 66 66 'दिवो नु मां बृहत: " इति तृचेन आकाशोदकमावनदोषशान्त्य- र्थम् उदकम् अभिमन्त्र्य शरीरं प्रक्षालयेत् ॥ तथा तत्रैव कर्मणि अनेन तैलं शान्तौषधीर्गन्धं हिरण्यं वासो वा अभिमन्त्य तैः शरीरम् उद्वर्तयेत् ॥ 66 सूत्रितं हि । “दिवो नु माम् इति वियहिन्दून् प्रक्षालयति मन्त्रो- क्तैः स्पृशति" इति [ कौ॰ ५, १०] ॥ तत्र प्रथमा ॥ एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋऋ॒तस्य॑ । अ॒स्माभि॑द॒तं ज॒रस॑ प॒रस्तादच्छिन्नं तन्तुमनु सं त॑रेम ॥ १ ॥ ए॒तम् । भा॒गम् । परि॑ । म । वि॒द्वान् । विश्व॑ऽकर्मन् । प्र॒थमऽजाः । ऋ॒तस्य॑ । अ॒स्माभि॑ः । द॒त्तम् । ज॒रस॑ः । पु॒रस्ता॑त् । अच्छन्नम्। तन्तु॑म् । अनु । सम् । तरेम ॥ १ ॥ 66 " हे विश्वकर्मन् विश्वं कृत्स्नं जगत् कर्म कर्तव्यं यस्य स विश्वकर्मा । एतत्संज्ञ हे देव यस्त्वम् ऋतस्य सत्यस्य परब्रह्मणः प्रथमजा: प्रथमं जा- तः उत्पन्न: । स प्रथमशरीरी हिरण्यगर्भः सर्वजगत्त्रष्टेत्यर्थः । नसनखनक्रमगमो विट्" ।. विनोनुनासिकस्यात् " इति आ त्वम् । ईदृशस्य तव माहात्म्यं विद्वान् जानन् एतं भागम पक्कम अन्नं हविर्भागं वा परि ददामि रक्षणार्थं तुभ्यं प्रयच्छामि । एवम् इ- ह लोके अस्माभिस्तुभ्यं दत्तम् इमं भागं जरसः परस्तात् जराया ऊ- र्ध्वम् एेहपातोत्तरकालम् । जरसः परस्ताद् इति वदता जरापर्यन्तम् आयुषा दैर्ध्य प्रार्थितम् । जीर्णम इमं देहं परित्यज्य अच्छिन्नम् अवि- 18' शांत्योष'.