पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ अथर्वसंहितोभाष्य ण्डलपर्यन्तं पराङ्मुखं गच्छति । पतु हौ । एव एवम् हे कासे कासश्लेष्मरोगात्मिके कृत्ये त्वं मनसो वेगेन धावतः प्रवाय्यम् प्रगन्तव्यम् अवधिम् अनुलक्ष्य म पत प्रगच्छ । मनोवेगेन अस्मात् पु- रुषाच्छीघं दूरदेशं निर्गच्छेत्यर्थः । “भय्यमवये च च्छन्दसि " इति निपात्यते । व्यत्ययेन दीर्घः ॥ द्वितीया ॥ यथा॒ा बाणः सुस॑शितः परा॒पत॑त्याशुमत् । ए॒वा त्वं कसे॒ प्र प॑त पृथि॒व्या अनु॑ सं॒वत॑म् ॥ २ ॥ यथा॑ । बाण॑ः । सु॒ऽसैशितः । परा॒ऽपत॑ति । आ॒शु॒ऽमत् । ए॒व । त्वम् । कामे॑ । म । पत॒ । पृथि॒व्याः । अनु॑ । स॒म्ऽवत॑म् ॥ २ ॥ । यथा येन प्रकारेण सुसंशित: सुठु सम्यक् तीक्ष्णीकृतो वाण: धनु- र्यन्त्रविमुक्तः सन् आशुमत् परापतति पराङ्मुखः शीघ्रं भूमिं प्रभिद्य ग च्छति एव एवम् हे कासे त्वं पृथिव्याः बाणविडाया भूम्याः संवतम संहतप्रदेशम् अनुलक्ष्य म पत प्रधाव । बाणवेगेन पातालपर्यन्तं ग च्छेत्यर्थः ॥ य॒था सूर्य॑स्य र॒श्मय॑ तृतीया ॥ परा॒यत॑न्त्याशुमत् । ए॒वा त्वं कसे॒ प्र प॑त समु॒द्रस्यानु॑ विस॒रम् ॥ ३ ॥ यथा॑ । सूर्य॑स्य । र॒श्मय॑ः । पराऽपत॑न्ति । आ॒शू॒ऽमत् । ए॒व । त्वम् । कामे॑ । प्र । पत॒ । स॒मु॒द्रस्य॑ । अनु॑ । वि॒ऽस॒रम् ॥ ३ ॥ सूर्यस्य रश्मयः किरणा उदयाद् ऊर्ध्वं यथा आशुमत् परापतन्ति लोकालोकपर्यन्तं शीघ्रं परागच्छन्ति एव एवं समुद्रस्य उदधेः विक्षरम विविधं क्षरणं प्रवाहो यस्मिन् देशे तं देशम अनुलक्ष्य में पत प्रगच्छ । इमं पुरुषं विसृत्य समुद्रपर्यन्तं सूर्यरश्मिवत् शीघ्रं गच्छेत्यर्थः ॥

  • See hote &o: the revious page. 3 PPI पति.

·