पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ अग्निहोत्रचन्द्रिका | । मनसा वा बिभर्मि । तिरो मा सन्तं मा महासज्योतिषा त्वा वैश्वानरेणोपति- ष्ठत इति प्रतिदिशमग्नीनुपस्थाय ॥ ७ ॥ दे० भाष्यम् – अनुपस्थिताग्निश्चेदनुपस्थिता अग्नयो येन सोऽनुपस्थिताग्निः । स चेत्प्रवासमापद्यते प्राप्यैतद्ब्रामान्तरं कस्मैचिदर्थायाऽऽगतस्य तत एत्र समापद्येत । स चेद- नयो विहृता इति मन्येत तदा तत्रस्थ एव विहारमभिमुखोऽग्नीनुपतिष्ठते ' इहैव सन्तत्र सन्तम् ' इत्येतेन मन्त्रेण । प्रतिदिशं दिशं दिशं विहारं मनसि ध्यात्वा या यस्याम्नर्दिक तां दिशममिमुखस्तस्याग्नेरुपस्थानं कुर्यादेतेनैव मन्त्रेण । पूर्वोक्तेनैवानुक्रमेणाऽऽहवनीयमेवानिं गार्हपत्यमथ दक्षिणाग्निमित्युपस्थाय प्रव्रजेदनपेक्षमाण इत्येवमादि समानमेवमुक्त्वा प्रत्यागत्य चाभयं वोऽभयं मेऽस्त्वित्येवोपतिष्ठेत । एते मन्त्रा ढिङ्गतो युज्यन्ते ॥ ७ ॥ वृत्तिः– यदि कदाचिद्यथोक्तोपस्थानमकृत्वैव गन्तव्यं स्याद्दैवान्मानुषाद्वा निमित्ता- सदा तत्रैव स्थितः ‘ इहैव सन् ' इत्यनेन मन्त्रेण सर्वानझी नुत्पत्तिक्रमेण तं तमग्निं मनसि ध्यात्वा तां तां दिशमभिमुखमुपस्थाय गच्छेत् ॥ ७ ॥ अपि पन्थामगन्महीति प्रत्येत्य ॥ ८ ॥ दे० भाष्यम् --अपि पन्थामित्यनेन मन्त्रेण प्रत्यागच्छन्प्रत्येत्य सकासं प्राश्य ॥ ८ ॥ वृत्तिः—ब्रूयादिति शेषः । प्रवासं कृत्वा प्रत्येत्य स्वग्रामसपीपं प्राप्य ‘ अफिः पन्था.. मगन्महि ' इति ब्रूयात् ॥ ८ ॥ 6 समित्पाणिर्वाग्यतोऽग्नीज्ज्वलतः श्रुत्वाऽभिक्रम्याऽऽहवनीयमीक्षेत | विश्व- दानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम | नमस्ते अस्तु मीहळुषे नमस्त उपसदने । अग्ने शुम्भस्व तन्वः सं मा रय्या सृजेति ॥ ९ ॥ दे० भाष्यम् – समिधः पाणौ यस्य सोऽयं समिपाणिः । वाम्यतो यदि ग्रामदर्शने. वासार्थे गच्छतीत्यन्येषां वाम्यतो भूत्वाऽऽगत्याग्निं प्रज्वलनं कृत्वाऽग्यो ज्वलन्त इति कस्यचिद्वचनं श्रुत्वा वचनादन्येन विहृता अग्नयो भवन्तीति सिद्धम् । ततः आचम्यातिक्रम्य प्रविश्याऽऽरादुपकारित्वादभिक्रम्याऽऽहवनीयमीक्षेत विश्वदानीमिति मन्त्रद्व- येन ॥ ९ ॥ वृत्तिः

- वाण्यतः समिधो गृहीत्वा पुत्रेण शिष्येण का पूर्वं प्रस्थापितेनानी विहृता-

ज्ज्वलतश्च ज्ञात्वा स्वयमाहिताग्निराचम्य शुचिर्भूत्वा तीर्थेन प्रपद्याव्यक्तदेशादत्यन्तं समीप देशमभिक्रम्याऽऽहवनीयमीक्षेत ' विश्वदानीम् ' इति द्वाभ्यां मन्त्राभ्याम् ॥ ९॥ +