पृष्ठम्:अग्निपुराणम्.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तसप्तत्यधिकशततमोऽध्यायः । हितोयाव्रताति। अग्निरुवाच । द्वितीयावतकं वक्ष्ये भुक्तिमुक्त्यादिदायकं । पुष्पाहारो हितोयायामखिनौ पूजयेत् सरौ ॥ १ ॥ भन्दं स्वरूपसौभाग्यं स्वर्गभाग जायते व्रतो। . कार्तिके शक्लप दास्य(१) हितीयायां यमं यजेत् ।। २ ॥ अन्दमुपोषितः स्वर्ग' गच्छेत्र नरकं व्रती। पशून्यशयनं वक्ष्ये अवैधव्यादिदायकं ।। ३ ॥ तष्पापचे हितीयायां श्रावणस्य चरेदिदं। थीवत्सधारिन् श्रीकान्त थौधामन् श्रौपतेऽव्यय ॥ ४ ॥ गाहस्यं मा प्रणामं मे यातु धमार्थकामदं। अग्नयो मा प्रणश्यन्तु मा प्रणश्शन्तु देवताः ॥ ५ ॥ पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः । लक्ष्मा वियुज्यते देवो न कदाचिद्यथा भवाम् ॥६॥ तथा कलत्रसम्बन्धी देव मा मे विभिद्यतां । लक्ष्मया न शून्य वरद यथा ते शयनं विभो ॥७॥ शय्या ममाप्यशून्यास्त संधव मधुसदन । लक्ष्मी विष्णु यजेदव्दं दद्याच्छय्यां फलानि च ॥ ८ ॥ प्रतिमासं च सोमाय दद्यादय समन्त्रकं । १ शमयतु इति ।