पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/20

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
प्रथमः सर्गः ।


मन्दाकिनीसैकतवेदिकाभिः
सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां
क्रीडारसं निर्विशतीव बाल्ये ॥ २९ ॥
तां हंसमालाः शरदीव गङ्गां
(२)[१] महौषधिं नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले
प्रपेदिरे प्राक्तनजन्मविद्याः ॥ ३० ॥

रविशिष्टयोरुपमानानर्हत्वान्न विशेषणाधिक्यदोषः । इयं मालोपमा ॥ २८ ॥
     मन्दाकिनीति ॥ सा पार्वती बाल्ये वयसि क्रीडानां रसः स्वादः । रुचिरिति यावत् । तं क्रीडारसम् । "रसो गन्धे रसः स्वादे" इति विश्वः । निर्विशतीव भुञ्जानेव । "निर्वेशो भृतिभोगयोः" इति विश्वः । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः । सखीनां मध्यगता सती मन्दाकिन्याः सैकतेषु पुलिनेषु वेदिकाभिः कन्दुकैः । क्रियया निर्वृत्तैः कृत्रिमैः । 'ङ्वितः क्त्रिः' इति क्त्रिप्रत्ययः । "त्रेर्मम्नित्यम्" इति मवागमश्च । पुत्रकैः पाञ्चालिकाभिः । "पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता" इत्यमरः । "संज्ञायां कन्" इति कन्प्रत्ययः । मुहुः पुन पुना रेमे ॥ २९ ॥
     तामिति ॥ स्थिरः स्थेयानुपदेशः प्राग्भवीयो यस्यास्तादृशीम् । मेधाविनीमित्यर्थः । तां पार्वतीमुपदेशकाले प्राक्तनजन्मविद्याः । पूर्वजन्माभ्यस्तविद्या इत्यर्थः । शरदि गङ्गां हंसमाला इव नक्तं रात्रौ महौषधिं तृणविशेषम् आत्मभासः


  1. महौषधी:।