सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८५९
बालमनोरमा ।

अध्वानमलं गच्छति अध्वन्यः- अध्वनीनः । 'ये चाभावकर्मणो:' (सू ११५४) 'आत्माध्वानौ खे' (सू १६७१) } इति सूत्राभ्यां प्रकृतिभावः । १८१८ । अभ्ययमित्राच्छ च । (५-२-१७) चाद्यत्खौ अभ्यमि.. - अभ्यमित्र्यः - अभ्यमित्रीणः । अमित्राभिमुखं.सुष्ठु गच्छछतीत्यर्थः । १८१९ । गोष्ठात्खञ्भूतपूर्वे । (५-२-१८) गोष्ठो भूतपूर्वः गौष्ठीनो देशः ।

१८२० । अश्वस्यैकाहगमः । (५-२-१९)

एकाहेन गम्यते इत्येकाहगम: आश्वीनोऽध्वा ।

१८२१ । शालीनकौपीने अधृष्टाकार्ययोः । (५-२-२० )

शालाप्रवेशमर्हति शालीनोऽधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वात्पुरुषलिङ्गामपि, तत्सम्बन्धात्तदाच्छादनमपि ।


समर्थविभक्तिरिति हरदत्तः । कृद्योगपष्ठीत्यन्ये । अलङ्गामीत्यत्र अलंशब्दस्य विवरणं पर्याप्तमिति क्रियाविशेषणम् । अध्वनो यत्खौ ॥ अध्वन्शब्दात् अलङ्गामीत्यर्थे यत्खौ स्त इत्यर्थः । अध्वानमलङ्गच्छतीति ॥ अलङ्गामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः । अभ्यमित्राच्छ च ॥ अमित्रः शत्रुः । तमभिमुखो भूत्वेत्यर्थे ‘लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभाचे अभ्यमित्रशब्दः । तस्मात् अलङ्गामीत्यर्थे छप्रत्ययः स्यादित्यर्थ । गोष्ठात्खञ् ॥ भूतपूर्व इति प्रकृतिविशेषणम् । भूतपूर्ववृत्तेर्गोष्ठशब्दात्स्वार्थे खः स्यादिति वृत्तिकृतः । अश्वस्यैकाहगमः ॥ अश्वशब्दात् षष्ठ्यन्तान् एकाहगम इत्यर्थे खञ् स्यादित्यर्थः । एकाहगमशब्दं व्युत्पादयति । एकाहेनेति ।। अस्मादेव निपातनात्कर्मणि गमेमरबिति भावः । 'कर्तृकरणे कृता' इति समासः । अश्वस्येति कर्तरि षष्ठी । आश्वीनोऽध्वेति ।। अश्वेन कर्त्रा एकाहेन गन्तुं शक्य इत्यर्थः । शालीन ॥ “शालाप्रवेशमर्हत्यधृष्ट इति कूपावतरणमर्हत्यकार्यमिति चार्थे शालाप्रवेशशब्दात्कूपावतरणशब्दाच्च खञ् । प्रवेशशब्दस्य अवतरणशब्दस्य चोत्तरपदस्य लोपे शालीनकौपीनशब्दौ निपात्येते' इति भाष्यम् । अधृष्ट इति ।। अप्रगल्भ इत्यर्थः । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालाप्रवेशमेवार्हति यः सः शालीन इति यावत् । कूपपतनमिति ।। कूपावतरणशब्दस्य विवरणमिदम् । कूपशब्दो नरकाभिधायी। कौपीनं पापमिति ॥ नरकपतनसाधनमकार्यम्पापमित्यर्थः । अनयोरर्थयोरेतौ रूढौ । ननु पुरुषलिङ्गे कथङ्कौपीनशब्दः इत्यत आह । तत्साधनत्वादिति ॥ पापसाधनत्वाद्वा, पापवदाच्छादनीयत्वाद्वा, पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति ॥ कौपीनशब्दस्य लक्ष्यपुरुषलिङ्गसम्बन्धात्