पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६०
[पाञ्चमिक
सिद्धान्तकौमुदीसहिता

१८२२ । व्रातेन जीवति । (५-२-२१)

व्रातेन शरीरायासेन जीवति न तु बुद्धिवैभवेन स व्रातीनः ।

१८२३ । साप्तपदीनं सख्यम् । (५-२-२२)

सप्तभिः पदैरवाप्यते साप्तपदीनम् ।

१८२४ । हैयङ्गवीनं संज्ञायाम् । (५-२-२३)

ह्यो गोदोहस्य हियङ्गुरादेशो विकारार्थे खञ्च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्यो गोदोहस्य विकारो हैयङ्गवीनम् । नवनीतम् ।

१८२५ । तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ । (५-२-२४)

पीलूनां पाकः पीलुकुणः । कर्णस्य मूलं कर्णजाहम् ।

१८२६ । पक्षात्तिः (५-२-२५)

मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ।


तदाच्छादनवस्त्रखण्डे कौपीनशब्दो लक्षितलक्षणया प्रयुज्यते इत्यर्थः । व्रातेन जीवति ॥ व्रातशब्दात्तृतीयान्तात् जीवतीत्यर्थे खञ् स्यादित्यर्थः । “नानाजातीयानाम् अलब्धजीवनद्रव्याणाम्भारवहनादिकष्टकर्मजीवानां सङ्घो व्रातः । तस्य यज्जीवनार्थङ्कष्टङ्कर्म तदिह त्रातम्' इति भाष्यम् । तादृशसङ्घवाचिनो व्रातशब्दात् “तस्येदम्’ इत्यणि व्रातशब्दोऽत्र तदीयकर्मणि विवक्षित इति तदाशयः । तदाह । शरीरायासेनेति साप्तपदीनम् ॥ सप्तपदशब्दात् तृतीयान्तादवाप्यं सख्यमित्यर्थे खञि साप्तपदीनमिति भवतीत्यर्थः । सप्तभिः पदैरिति ॥ पदविक्षेपैरित्यर्थः । हैयङ्गवीनम् ॥ “ह्यस् इत्यव्ययम्पूर्वेद्युरित्यर्थे तत्रोत्पन्नो गोदोहः गोपयः ह्यो गोदोहः । तस्मात् षष्ठ्यन्तात् विकाराऽर्थे खञि ईनादेशे प्रकृतेः हियङ्गु इत्यादेशे ओर्गुणे अवादेशे आदिवृद्धौ हैयङ्गवीनमिति भवति संज्ञायाम्' इति भाष्यम् । तदाह । ह्यो गोदोहस्येत्यादिना ॥ नवनीतमिति ।। भाष्ये तु “हैयङ्गवीनं घृतम्” इति दृश्यते । “ तत्तु हैयङ्गवीनं स्यात् ह्यो गोदोहोद्भवं घृतम्” इत्यमरः । तस्य पाकमूले ॥ पाकमूले इति समाहारद्वन्द्वात्सप्तमी । पाकः परिणामः । षष्ठ्यन्तेभ्यः पील्वादिभ्यः पाकेऽर्थे कुणप् । कर्णादिभ्यस्तु मूलेऽर्थे जाहजित्यर्थः । कुणपस्तद्धितत्वात् ककारस्य नेत्संज्ञा । जाहचस्तु जकारस्य प्रयोजनाभावात् नेत्संज्ञा । पक्षात्तिः ॥ मूलग्रहणमात्रमिति ।। पूर्वसूत्रे पाकमूल इति समासनिर्दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः । तस्येत्यप्यनुवर्तते । पक्षशब्दात् षष्ठ्यन्तात् मूलेऽर्थे तिप्रत्ययः