सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८४९
बालमनोरमा ।

भस्य टेर्लोपः स्यादिष्टमेयस्सु । पृथोर्भावः प्रथिमा-पार्थवम् । म्रदिमा- मार्दवम्।

१७८७ । वर्णदृढादिभ्यः ष्यञ्च । (५-१-१२३)

चादिमनिच् । शौक्ल्यम् -शुक्लिमा । दार्ढ्यम्। ’पृथुमृदुभृशकृशदृढ

परिवृढानामेव रत्वम्' (वा ४२११) । द्रढिमा । षो ङीषर्थः। औचिती। याथाकामी।

१७८८ । गुणवचनब्राह्मणादिभ्यः कर्मणि च । (५-१-१२४)

चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् । अर्हतो नुम्च-' (वा ३०९२) । अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः।


इत्यनुवर्तते। ’अल्लोपोऽनः' इत्यतः लोप इति च । तदाह । टेर्लोपः स्यादिष्टमेयस्वितिप्रथमेति ॥ पृथुशब्दादिमनिच्, चकार इत्,नकारादिकार उच्चारणार्थः । ऋकारस्य रः, उकारस्य गुणम्बाधित्वा टेर्लोपः । पार्थवमिति ॥ इमनिजभावे “इगन्ताच्च लघुपूर्वात्' इत्यण् । म्रदिमेति ॥ मृदुशब्दादिमनिचि ऋकारस्य रः, ‘टेः’ इति टिलोपश्च । मार्दवमिति इगन्ताच्च ' इत्यण् । वर्णदृढादिभ्यः ष्यञ्च ॥ षष्ठयन्तेभ्यो वर्णवाचिभ्यो दृढादिभ्यश्च भावे ष्यञ् च स्यादित्यर्थः ।गुणवचनादित्त्वादेव ष्यञि सिद्धे इमनिच्समुच्चायार्थं वचनम्। ’पृथुं मृदुं भृशञ्चैच कृशञ्च दृढमेव च । परिपूर्वम्बृढञ्चैव षडेतान् रविधौ स्मरेत्” इति वार्तिकमर्थतः सङ्गृह्णाति । पृथुमृदुभृशेत्यादि । तेन कृतयतीत्यादाविष्टवत्वेऽपि रभावो न । द्रढिमेति॥ दृढशब्दादिमनिचि ऋकारस्य रः ।भ्रशिमा क्रशिमा द्रढिमा परिव्रढिमा । ननु वणेदृढादीना लोकतो नपुंसकत्वात् ष्यञष्षित्वस्य किम्प्रयोजनमित्यत आह । षो ङीषर्थ इति ॥ औचितीति ॥ उचितशब्दात्ब्राह्मणादित्वात् ष्यञि लोकात् स्त्रीत्वम्। षित्वात् ङीषि ‘हलस्तद्वितस्य' इति यलोपः। उचितस्तु न दृढादिः ।तद्गणे अदर्शनात् इमनिच्प्रसङ्गाच्च । अस्यैव ष्यञ् । उत्तरसूत्रे अनुवृत्तेरिहैव तस्य षित्वयोजनकथनमिति बोध्यम् । याथाकामीति ॥ काममनतिक्रम्य यथाकामम् । ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञि लोकात् स्त्रीत्वे षित्वातू ङीष् । गुणवचन ॥ गुणोपसर्जनद्रव्यवाचिभ्यो ब्राह्मणादिभ्यश्च षष्ठ्यन्तेभ्यो भावे कर्मणि च अर्थे ष्यञित्यर्थः अर्हतो नुम्चेति ॥ वार्तिकमिदम् । “अर्हः प्रशंसायाम्' इति सूत्रेण शतरि अर्हच्छब्दः पूज्यवाचीति कैयटः । अर्हच्छब्दात् ष्यञ् स्यात्प्रकृतेर्नुं चेत्यर्थः । मित्वादन्त्यादचः परः। अनुस्वारपरसवर्णौ । लोकात् पुंस्त्व स्त्रीत्वञ्च । तदाह । आर्हन्त्यमार्हन्तीति॥ आर्हंत्यशब्दात् ङीषि “हलस्तद्धितस्य’ इति यलोपः । यथातथेति निपातसमुदायः यथापुरमिति पुराशब्देन पदाथ।र्नतिवृत्तावव्ययीभावः । इमौ शब्दौ नञ्पूर्वपदौ ब्राह्मणादी