सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता


'गुरोश्च हलः' (सू ३२८०) इत्यप्रत्ययः । यस्तु * अमृते जारजः कुण्ड इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हेि स्त्रीविषय त्वादप्राप्तो ङीष् विधीयते, न तु नियम्यते । गोणी आवपनं चेत्, गोणान्या । स्थली अकृत्रिमा चेवत्, स्थलान्या । भाजी श्राणा चेत्, भाजान्या । नागी स्थूला चेत्, नागान्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्ध्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत्, कालान्या । नीली अनाच्छादनं चेत्, नीलान्या । नील्या रक्ता शाटीत्यर्थः । * नील्या अन्वक्तव्यः' (वा २६८०) इत्यन् । अनाच्छादनेऽपि


कुडेि दाहे इति । गुरोश्चेति । गुरुमतो हलन्ताद्धातोः अप्रत्ययस्यात् भावकर्मणोः स्त्रि यामिति तदर्थः । ननु “ अमृते जारजः कुण्डो मृते भर्तरि गोळकः' इति मनुय्यजातिविशेष वाची कुण्डशब्दोऽपि प्रत्युदाहरणं किन्न स्यादित्यत आह । यस्त्विति ॥ जातिलक्षणः इति । जातेरत्रीविषयात्' इति जातिनिमित्तक इत्यर्थः । ननु अमत्रेऽपि वाच्ये कुण्डशब्दात् जाति लक्षणडीषि सिद्धे तद्वचनं व्यर्थम् । नच अमत्र एव डीषिति नियमार्थ तदिति वाच्यम् । एवं सति मनुष्यजातिविशेषवाचित्वे डीषोऽनुपपत्तेरित्यत आह । अमत्रे हेि स्त्रीविषयत्वा दिति ॥ 'जातेतरस्त्रीविषयात्' इत्यनित्यस्त्रीलिङ्गात् ङीष् विहितः । अमत्रे कुण्डशब्दो नित्य स्त्रीलिङ्गः, “पदान्तरं विना त्रियां वर्तमानत्वं नित्यस्त्रीत्वम्' इति स्वीकारात् । “कुण्डी कमण्डली जारात् पतिवत्नीसुते पुमान्’ इति मेदिनीकोशाच्च । तथाच कुण्डशब्दात् जाति लक्षणडीषप्राप्त एव विधीयते, नतु नियम्यते । अतो मनुष्यजातिवाचित्वेऽपि डीष् निर्बाध इति भावः । आावपनञ्चेदिति ॥ ओप्यते निक्षिप्यते अस्मिन्नित्यर्थे आङ्पूर्वाद्वपे र्ल्युट् । गोणान्येति ॥ कस्याश्चिदिदन्नाम । अकृत्रिमा चेदिति ॥ इदानीन्तनपुरुषपरि ष्कृता भूमिः कृत्रिमा, तद्भिन्नेत्यर्थः । स्थलान्येति ॥ कृत्रिमेत्यर्थः । “स्थलयोदकं परिगृह्णन्ति’ इति यजुर्वेदे । भाजीति ॥ भज्यते सेव्यत इति कर्मणि घञ् । * घञ्जजबन्ताः पुंसि ' इति प्रायिकम् । श्राणा चेदिति ॥ “यवागूरुष्णिका श्राणा' इत्यमरः । भाजान्येति ॥ अश्रा णेत्यर्थः । “श्रा पाके' त्क्तः । संयोगादेरातो धातोर्यण्वतः' इति निष्ठानत्वम्, णत्वञ्च, पक्वेत्यर्थः । नागशब्दस्य स्थौल्ये क्वाप्यप्रसिद्धेराह । गजवाचीति । वर्णश्चेदिति ॥ वर्णः प्रवृत्तिनिमित्त चेदित्यर्थः । वर्णविशिष्टा चेति यावत् । अन्यथा कालशब्दस्य “गुणे शुक्लादयः पुंसि” इति पुंस्त्वापातात् । ।सूत्रे वर्णा इति च्छेदः । अर्श आद्यजन्ताट्टाप् । कालान्येति । क्रौर्ययुक्त त्यर्थः । संज्ञाशब्दो वा । अनाच्छादनञ्चेदिति। वस्रभित्रं गवादिकमित्यर्थः । नीलान्येति । नन्वत्राच्छादनस्य विशेष्यत्वे स्त्रीत्वानुपपत्तिः । पटीत्यस्य विशेष्यत्वेऽपि नीलवर्णवती पटीत्यर्थे डीषः अप्रसक्तिरेव । 'नीलादोषधौ, प्राणिनि च' इति नियमस्य वक्ष्यमाणत्वादित्यत आह । नील्या रक्तेति । नील्या ओषध्या रागविशेषं प्राप्तेत्यर्थः । ननु कथमयमर्थो लभ्यत इत्यत आह । नील्या अनिति ।। “तेन रक्तं रागात्, इत्यत्र इदं वार्तिकम् । नीलीशब्दादन्प्रत्यये