सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

द्रुहौ, द्रुह । ध्रुग्भ्याम्-ध्रुड्भ्याम्। ध्रुक्षु-ध्रुट्त्सु -ध्रुट्सु । ण्व मुहष्णुहष्णिहाम् ।

३२८ । इग्यणः सम्प्रसारणम् । (१-१-४५)

३२९ । वाह ऊठ् । (६-४-१३२)

भम्य वाह सम्प्रसारणमूठ् स्यात् ।

३३० । सम्प्रसारणाञ्च । (६-१-१०८)


तदाह । एषामिति । द्रुहादीना चतुर्णामित्यर्थ । ध्रुक्-ध्रुगिति । षत्वपक्षे भष्भावे चर्त्वविकल्प इति भाव । ध्रुट्-ध्रुडिति ॥ घत्वाभावपक्षे “हो ट ' इति ढत्वे भष्भावे चर्त्वविकल्प । अत्र भष्भावार्थमव 'हो ढ ' इति सूत्र ढ एव विहित । नतु द । तथा सति झषन्तत्वाभावात् भष्भावो न स्यात् । अचि सुपि द्रुहम्, इत्यादि । ध्रुग्भ्यामिति ॥ घत्क्पक्षे भध्भाव । धुड्भ्यामिति ॥ घत्वाभावपक्षे टत्वे जश्त्वे रूपम् । एव भिसि भ्यसि च रूप द्वयम् । द्रुह । द्रुह, द्रुहो , द्रुहाम् । ध्रुक्ष्विति ॥ धत्वे भष्भावे 'आदेशप्रत्यययो इति षत्वे 'खरि च' इति चर्त्वम् । ध्रुटन्स्विनि ॥ घत्वाभावपक्षे टत्वे भष्भाव ढस्य जश्त्वेन धुटे चर्त्वे षत्वम् । चर्त्वस्यासिद्धत्वात् “चयो द्वितीया इति तकारस्य यो न भवति । न पदान्तात्’ इति ष्टुत्वन्न । घ्रुट्स्विति । धुडभावे रूपम् । ह्रस्य ढ, भष्भाव , ढस्य जश्त्वेन ड, तस्य चर्त्वेन ट । एवमिति । भष्भाववर्जमिति शेष । विश्व बहतीत्यर्थे भजो ण्वि ’ इत्यतो ण्विरित्यनुतौ ‘वहश्च' इति ण्वि । णकार इत् । वेर्लोप । 'अत उपधाया ' इति वृद्धि । उपपदसमास । विश्ववाह इति रूपम् । ततस्सोर्हत्डय.बिति लोपे हो ढ ? इति ढत्व 'वावसाने इति चर्त्वविकल्पे विश्ववाट्-विश्ववाङ्, वि-श्ववाहौ, विश्ववाह । विश्ववाहम्, विश्ववाहौ, इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादौ अचि सम्प्रसारणकार्य वक्ष्यन् सम्प्रसारणसज्ञा दर्शयति । इग्यणस्सम्प्रसारणम् ॥ यणस्स्थाने इति व्याख्यानात् स्थानार्थलाभ । “षष्ठी स्थानेर्योगा' इति तु नह भवति । अनुवादे परिभाषाणामनुपस्थिते । षष्ठीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसम्भवान् “षष्ठी स्थानयोगा' इत्येतत् “निर्दिश्यः मानस्यादेशा भवन्ति' इत्येतदर्थमिति भाष्य सिद्धान्तितत्वाच्च । सम्प्रसारणसंज्ञः इति ॥ ततश्च “वसोस्सम्प्रसारणम्, वचिस्वपियजादीनाम्' इत्यादौ सम्प्रसारणश्रुतौ यण्स्थानिक इगुपस्थितो भवति । तत्रन्तरतम्याद्यस्य इकार वकारस्य उकार रेफस्य ऋक्रांर लस्य लृकार इति ज्ञेयम् । वाह ऊठ् ॥ “भस्य' इत्यधिकृतम् । 'वसोस्सम्प्रसारणम्' इत्यतस्स म्प्रसारणमित्यनुवर्तते । तच्च ऊठ् इत्यनेनान्वेति । तदाह । भस्येत्यादिना । । सम्प्रसारण मिति ॥ तेन वाहो यो यण् वकारस्तस्य ऊठ इति लभ्यते । सम्प्रसारममित्यननुवृत्तौ & अलो ऽन्त्यस्य' इति हकारस्य स्यात् । तदनुवृत्तौ तु ऊठों यण्स्थानिकत्वलाभात् नॉलेंऽन्त्यस्य इति भवति । विश्व ऊ आह असू इति स्थिते । सम्प्रसारणाञ्च ।’ ‘इको यणचिं *