पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
[स्वादि
सिद्धान्तकौमुदीसहिता

अदिक्षत । भ्रस्ज १२८५ पाके । 'ग्रहिज्या-' (सू २४१२) इति सम्प्रसारणम् । सस्य श्चुत्वेन शः । शस्य श्चुत्वेन ज: । भृज्जति-भृज्जते ।

२५३५ । भ्रस्जो रोपधयो रमन्यतरस्याम् । (६-४-४७)

भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्त्वादन्त्यादच: परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतु: । बभर्जिथ-बभर्ष्ठ । बभर्जे । रमभावे, बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । 'स्कोः--' (सू ३८०) इति सलोपः । 'व्रश्च–' (सू २९४) इति षः । बभ्रष्ठ | बभ्रज्ज | भ्रष्टा-भर्ष्टा | भ्रक्ष्यति-भर्क्ष्यति । क्ङिति रमागमं बाधि-


पाके' अनिट् । भ्रस्ज् अ ति इति स्थिते आह । ग्रहिज्येति ॥ डित्त्वाद्रेफस्य सम्प्रसारणमृकारः पूर्वरूपञ्चेति भावः | भ्रस्ज् अ ति इति स्थिते आह | सस्येत्यादि ॥ णलि भ्रस्ज् अ इति स्थिते । भ्रस्जो रोपधयोः ॥ भ्रस्ज इत्यवयवषष्ठी । रोपधयोरिति स्थानषष्ठी। रश्च उपधा च तयोरिति विग्रह.। रेफादकार उच्चारणार्थः । रेफस्य उपधायाश्च स्थाने इति लभ्यते । 'आर्धधातुके' इत्यधिकृतम् । तदाह । भ्रस्जे रेफस्येत्यादिना ॥ रमि मकार इत् अकार उच्चारणार्थ. । तदाह । मित्त्वादन्त्यादचः परः इति ॥ तथाच रेफाकारादुपरि सकारात् प्राक् रेफ आगम इति फलितम् । भ्र र् स् ज् अ इति स्थितम् । ननु रम आगमत्वे रोपधयोरिति कथ स्थानषष्ठीनिर्देश इत्यत आह । स्थानेति ॥ स्थान प्रसङ्गः । रेफस्य उपधायाश्च उच्चारणप्रसङ्गे सति अकारादुपरि रेफ. प्रयोज्यः । भकारादुपरि रेफ. जकारात्प्राक्सकारश्च न प्रयोज्याविति लब्धम् । तथाच तयोर्निवृत्तिः फलितेति भाव । एवञ्च भर्ज् अ इति स्थिते द्वित्वादौ रूपमाह । बभर्जेति ॥ अतुसादावपि सयोगात्परत्वात्कित्त्वाभावात् 'ग्रहिज्या' इति सम्प्रसारणन्न भवति । भारद्वाजनियमात्थलि वेडिति मत्वा आह । बभर्जिथ-बभर्ष्ठेति ॥ इडभावपक्षे बभर्ज् थ इति स्थिते 'व्रश्च' इति जस्य षः । ष्टुत्वेन थस्य ठ इति भाव. । बभर्जिव । लिटस्तड्याह । बभर्जे इति ॥ बभर्जाते इत्यादि सुगमम् । रमभावे आह। बभ्रज्जेति ॥ णलि भ्रस्ज् अ इति स्थिते द्वित्वे हलादिशेषे अभ्यासजश्त्वे बभ्रस्ज् अ इति स्थिते सस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकार इति भाव । 'लिट्यभ्यासस्य' इति सम्प्रसारणस्य न प्रसक्तिः । अभ्यासे हलादिशेषण रेफाभावात् । बभ्रज्जुतुरिति ॥ सयोगात्परत्वादकित्त्वात् 'ग्रहिज्या' इति न सम्प्रसारणमिति भाव । बभ्रज्जिथेति ॥ थलि भारद्वाजनियमादिट्पक्षे रमभावपक्षे रूपम् । तत्र इडभावपक्षे बभ्रस्ज् थ इति स्थिते आह । स्कोरिति ॥ व्रश्चेति ष: इति ॥ जस्येति शेष । रमभावपक्षे लिटस्तड्याह। बभ्रज्जेति ॥ बभ्रज्जाते | बभ्रज्जिषे । इत्यादि सुगमम् । भ्रष्टेति ॥ रमभावपक्षे रूपम् । भर्ष्टेति ॥ रमागमे भर्ज् ता इति स्थिते जस्य श्चुत्वेन शः शस्य 'व्रश्च' इति षः ष्टुत्वेन तकारस्य ट इति भावः । एव भ्रक्ष्यति-भर्क्ष्यतीति ॥ ‘षढोः’ इति कत्वे सस्य षत्वमिति विशेषः । भृज्जतु । अभृज्जत् ।