सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
[अदादि
सिद्धान्तकौमुदीसहिता


१२) इति सलोपस्यासिद्धत्वात् 'अतो हे:' (सू २२०२) इति न लुक् । असत् । असस्ताम् । अस:-असत् । सस्यात् । असासीत्-अससीत् । सन्ति । इदित्त्वान्नुमि कृते 'संस्त् तस्' इति स्थिते 'स्कोः -–' ( सू ३८०) इति सलोपे 'झरो झरि सवर्णे' (सू ७१) इति तकारस्य वा लोपः । सन्त: । संस्तन्ति । 'बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य 'स्कोः–-' (सू ३८०) इति लोपाभावात् । संस्ति । संस्तः । संस्तन्ति । इत्येके । वश १०८० कान्तौ । कान्तिरिच्छा । वष्टि | उष्टः । उशन्ति । वक्षि | उष्ठः | उवाश | ऊशतुः |


सेस । ससास-ससस । सेसिव । सेसिम । ससिता । ससिष्यति । सस्तु-सस्तात् । सस्ताम् । ससन्तु । सस् हि इति स्थिते हेर्धिभावे 'धि च' इति सलोप मत्वा आह । सधीति ॥ तत्र धि इत्यस्य स्थानिवत्त्वेन हित्वात् ‘अतो हे:’ इति लुकमाशङ्क्य आह । पूर्वत्रेति ॥ सस्तात् । सस्तम् । सस्त । ससानि । ससाव । ससाम । लड्याह । असदिति ॥ असस् त् इति स्थिते हल्ड्यादिना तकारलोपे 'तिप्यनस्तेः' इति सस्य दत्वमिति भावः । असस्तामिति ॥ अससन् इत्यपि ज्ञेयम् । लड सिपि तु असस् स इति स्थिते 'सिपि धातोः' इति रुर्वा, पक्षे द, हल्ड्यादिलोप । तदाह । अस:-असदिति ॥ असस्तम् । असस्त । अससम् । असस्व । असस्म । लिड्याह । सस्यादिति ॥ सस्याताम् । सस्यास्ताम् इत्यादि । लुङ्याह । असासीदिति ॥ 'अतो हलादे.' इति वृद्धिविकल्प इति भाव । अससिष्यत् । अथ पस्तिधातोरुदाहरति । सन्तीति ॥ इदित्वान्नुम् । ‘नश्च' इत्यनुस्वारे सस् त् ति इति स्थिते ‘स्कोः’ इति सलोपे परसवर्णे 'झरो झरि ' इति प्रथमतकारस्य लोपविकल्पे एकत द्वित वा रूपमिति भाव. । संस्तन्तीति ॥ अनभ्यस्तत्वादन्तादेश एवेति भावः । सिपि सस्त् सि इति स्थिते 'स्को' इति सलोपे अनुस्वारस्य परसवर्णो नकारः । सवर्णपरत्वाभावात झरो झरि' इति तकारलोपो न । सन्त्सि । सन्थ । सन्थ । सस्त्मि । सस्त्वः । सस्त्म. । ससस्त । ससस्ततु. । ससस्तिथ । ससंस्तिव । ससस्तिम । सस्तिष्यति । सन्तु-सन्तात् । सन्ताम् । संस्तन्तु । संस्त् हि इति स्थिते हेर्धिभावे 'स्कोः' इति सलोपे परसवर्णे सन्त् धि इति स्थिते 'झरो झरि' इति तकारस्य लोपः । सन्धि । लोपाभावे तवकारस्य जश्त्वे सन्द्धि-सन्तात् । सन्तम् । सन्त । सस्तानि । सस्ताव । सस्ताम । लडस्तिपि असस्त् त् इति स्थिते हल्ड्यादिलोपे सयोगादिलोपे संयोगान्तस्य लोपे असन् । असन्ताम् । असस्तन् । असन् । असन्तम् । असन्त । असस्तम् । असस्त्व । असस्त्म । सस्त्यात् । असस्तीत् । असस्तिष्यत् । मतान्तरमाह । बहूनामिति । इत्याश्रित्येति ॥ तथाच प्रकृते लुडस्तिपि सस्त् ति इति स्थिते झलि परे अनुस्वारसकारतकाराणान्त्रयाणां समवायात् स् त् इत्यनयोः सयोगसज्ञाविरहात् ‘स्को.’ इति लोपाभावात् सस्तीत्याद्यूह्यमित्यर्थः । वश कान्ताविति ॥ कान्तिरिच्छा । सेट् । वष्टीति ॥ 'व्रश्च' इति शस्य षत्वे तकारस्य ष्टुत्वेन टः । उष्टः इति ॥ डिति ‘ग्रहिज्या’ इति सम्प्रसारणे रूपमिति भावः । उवाशेति ॥ लिटि