सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
बालमनोरमा ।

मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मद्धयमः स्यात्परिहासे गम्यमाने । मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ।

२१६४ । अस्मद्युत्तमः । (१-४-१०७)

तथाभूतऽस्मद्युत्तमः स्यात् ।

२१६५ । शेषे प्रथमः । (१-४-१०८)

मद्ध्यमोत्तमयोरविषये प्रथमः स्यात् । * भू १ सत्तायाम्' । कर्तृविवक्षायां भू ति इति स्थिते ।

२१६६ । तिङ्शित्सार्वधातुकम् । (३-४-११३)

तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ।

२१६७ । कर्तरि शप् । (३-१-६८)

कत्रैर्थे सार्वधातुके परे धातोः शप्स्यात् । शपावितौ ।


धाताविति विशेष्य लभ्यते । तदाह । मन्यधातुरित्यादिना । तस्मिन् प्रकृतिभूते सतीति ॥ तस्माद्धातोर्लस्य स्थाने इत्यर्थ.। मद्ध्यमस्स्यादिति ॥ अस्मद्युपपद इति शेषः । अस्मद्युत्तम इत्युत्तरसूत्रात्तदनुवृत्तेः। एवञ्च उत्तमपुरुषापवादोऽयमद्धयमविधि. । मन्यतेरुत्तम एकवच्चेति द्वितीयं वाक्यम्। तद्याXचष्टे । मन्यतेस्तूत्तमस्स्यादिति ॥ युष्मद्युपपद इति शेष । पूर्वसूत्रात्तदनुवृत्ते. । सचेति ॥ सः मन्यतेरुत्तमपुरुष. द्वित्वबहुत्वयोरपि एकवचन लभत इत्यर्थः । मद्ध्यमोत्तमयोर्व्यत्यासार्थमिदम् । एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति । अस्मद्युत्तम इति । तथाभूत इति॥ तिड्वाच्यकारकवाचिनि प्रयुज्यमाने अप्रयुज्यमानेचेत्यर्थ.। शेष इति॥ उक्तान्मद्ध्यमोत्तमविषयादन्यश्शेषः । तदाह। मद्ध्यमोत्तमयोराविषय इति । त्वम् अहश्च पचाव इत्यत्र तु परत्वादुत्तमपुरुष एव । न तु मद्ध्यम. । देवदत्तस्त्वञ्च पचथ इत्यत्रापि न प्रथमपुरुषः । युष्मदस्सत्वेन शेषत्वाभावादित्यलम् । भूसत्तायामिति ॥ वर्तत इति शेषः । भ्वादिगणे प्रथमो धातुरयम् । तत्र भू इत्येव गणे पाठः । अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते । यद्यपि सत्ता जातिः न क्रिया । तथापि आत्मधारण सत्तेत्युच्यते । खरूपेणावस्थानमिति यावत् । कर्तृविवक्षायामिति ॥ वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याभावात् प्रथमपुरुषत्रिके तत्रापि कर्तुरेकत्वविवक्षायां तिपि सति भूति इति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः । तत्र सार्वधातुककार्ये वक्ष्यन् सार्वधातुकसज्ञामाह्। तिङ्शिदिति॥ धातोरित्यधिकृतम् । तदाह। धात्वधिकारोक्ता इति॥ तेन हरीनित्यत्र शसस्सार्वधातुकत्व न । अन्यथा तिङ्शित्सार्वधातुकमिति शसस्सार्वधातुकत्वात् सार्वधातुकमपिदिति ङित्वे घेर्डितीति गुणः स्यात् । कर्तरीति॥ सार्वधातुके यागित्यस्मात् सार्वधा-