सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६]
[भ्वादि
सिद्धान्तकौमुदीसहिता
२१६० । तिङस्त्रीणि प्रथममद्ध्यXमोत्तमाः । (१-४-१०१)

तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ।

२१६१ । तान्येकवचनद्विवचनबहुवचनान्यकेशः । (१-४-१०२)

लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ।

२१६२ । युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मह्यमः । (१-४-१०५)

तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्द्यमः स्यात् ।

२१६३ । प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च । (१-४-१०६)

वक्ष्यन् प्रथमादिसज्ञा तावदाह । तिङस्त्रीणीति ॥ तिड पट बिका. मज्ञास्तु तिस्त्र इति यथासख्यासम्भवादेकैकस्य त्रिकस्य तिसृघु सज्ञासु प्राप्तस्वाह । तिङ उभयोः पदयोरिति ॥ ल परस्मैपदमित्यतः परस्मैपदमिति तडानावात्मनेपदमित्यत आत्मनेपदमिति चानुवृत्तम पष्ट्यन्ततया विपरिणम्यते । ततश्च परस्मैपदात्मनेपदयोरुभयोरपि प्रत्येक वयस्त्रिकास्मन्तीनि यथासख्यम्प्रथमादिसज्ञाः प्रवर्तन्त इति भाव । प्रथमादिषु पुरुषसज्ञा तु प्राचीनाचार्यशास्त्रसिध्देति वोद्ध्यम् । अथ प्रथमादिपुरुषेषु एकैकस्मिन् पुरुषे प्रत्ययत्रिकात्मके युगपत् पर्यायेण वा एकैकप्रत्यये प्राप्ते ह्येकयोर्द्विवचनैकवचने । बहुषु बहुवचनमिति व्यवम्थार्थमेकवचनादिसंज्ञामाह । तानीति ॥ तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममद्ध्यमोत्तमाख्याXनि तिङस्त्रीणि त्रीणि पगमृश्यन्ते । तदाह । लब्धप्रथमादिसंज्ञानीति ॥ एकश इत्यस्य विवरण प्रत्येकमिति । सग्व्यैXकवचनाज्ञ वीप्सायामिति शसिति भाव. । युष्मदीति ॥ उपोञ्चारितम्पदमुपपदम् । युष्मदि रामापोच्चाXरिते सताभूतलकारेण विवक्षितम् । लः परस्मैपदमित्यतस्तदनुवृत्तेः । तथा च फलितमाह । तिङXवाच्यकारकवाचिनि युष्मदीति ॥ स्थान प्रसङ्गः अस्यास्तीति स्यानी तस्मिन् प्रसक्ते सतीत्यर्थः । प्रसङ्गश्च तदर्थावगतौ सत्यां वक्त्रा अप्रयोग एव पर्यवस्यति । तथा च स्थानिनीत्यनेन उपपदभXते युष्मादि प्रयोग विना स्वार्थम्बोधयति सतीत्यर्थः पर्यवस्यति । तदाह । अप्रयुज्यमान इति ॥ स्थानिनीत्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मद्ध्यमस्स्यात् । ततश्च राम पाहीत्यादौ अव्याप्तिस्स्यात्। अपिना लब्धमाह । प्रयुज्यमानेऽपीति ॥ युष्मद्युपपदे स्थानिनीत्येवोक्तौ रामत्व पाहीत्यादौ युष्मत्प्रयोगे मद्ध्यमो न स्यात् । अतोऽपिग्रहणमिति भावः । अत्वं त्व सम्पद्यत इत्यत्र तु न मध्द्यमपुरुष. । तत्र युष्मच्छब्दस्य गौणत्वात् । भवानागच्छतीत्यादौ भवच्छब्दयोगे तु न मध्द्यमपुरुषः । युष्मच्छब्दस्य सम्बोद्ध्यैकविषयत्वात् । भवच्छब्दस्य तु स्वभावेन सम्बोद्ध्यासम्बोद्ध्यसाधारणत्वादित्यलम् । प्रहास इति ॥ वाक्यद्वयमिदं सूत्रम् । प्रहासे च मन्योपपदे इति प्रथमं वाक्यम् । मध्यम इत्यनुवर्तते । मनधातुः श्यन्विकरणः उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलात्