वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूपताकां
श्यामास्विति । श्यामासु प्रियङ्गुलतासु । उत्पश्यामि उत्प्रेक्षे । प्रतनुषु अतिशयेन तन्वीषु । भ्रूपताकां, पताका ध्वजं भ्रूरेव पताका भ्रूपताका । भ्रुबः पताकात्वेन रूपणं भावादिसूचकत्वात् । हन्त विषादे । एकस्थं एकत्र स्थितम् । चण्डि ! अत्यन्तकोपने! । अनेनैकत्र सादृश्यं लब्धं चेद् भवति तदेवालं भवति किं मया कार्यमिति मह्यं मा कुप्य इति परिहासाभिप्रायेण प्रयुक्तम् । सदृशमेव सादृश्यं, पूर्वोदाहृतानां सदृशवाचित्वात् ॥३७॥
चित्रदर्शनमाह--
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
आस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
त्वामिति । धातुरागैः धात्वाख्याञ्जनद्रव्यैः । आत्मानं माम् । तस्मिन्नप्यालेख्येऽपि । नौ आवयोः । कृतान्तः दैवम् ॥३८॥
स्व्प्रसमागममाह-
र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मामिति । सम्भावनार्थं नञ्द्वयं प्रयुक्तम् । स्थलीदेवतानां, त रुकिसलयेष्विप्ति वक्ष्यमाणत्वाद् वनशब्दाप्रयोगः । तरुकिसलयेषु,
–-
६५
इदं पतितानामश्रुलेशानां प्रकाशनाय प्रयुक्तम् । स्वप्नसन्दर्शने कथमपि लप्स्यमानायास्तव निर्दया श्लेषहेतोः स्वापात् प्रागेवाकाशप्रणिहितमुजं मां दृष्ट्वा करुणरसाविद्धहृदया वनस्थलीदेवता बाष्पं मुञ्चन्तीत्यर्थः । अन्ये तु पश्यन्तीनां तुहिनकणिकाच्छद्मना देवतानामिति पाठमादृत्य व्याचक्षते । इदं रसावहं न भवति । कामार्तस्य तत्त्वं विहाय व्याजबाष्पमोचनवर्णनस्यायुक्तत्वात् [१] ॥३९॥
तदङ्ग्स्पृष्टस्पर्शनमाह--
भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः
आलिङ्ग्यन्ते गुणवति ! मया ते तुषाराद्रिवाताः
भित्त्वेति । देबदारुद्रुमाणाम् । दारुशब्दे सति किमर्थं द्रुमशब्दः प्रयुक्त इति नाशङ्कनीयं, संज्ञापातित्वाद् दारुशब्दस्य । उक्तं च – ‘स देवदारुद्र्मवेदिकायाम्’ इति । दक्षिणेन, मार्गेणेति शेषः। ‘प्रकृत्यादिभ्य उपसंख्यानम्’ (वा० २.३.१८) इति तृतीया । अस्य विशेष्याप्रयोगः समेन धावति विषमेण धावतीतिवत् । प्रयुक्तं च ‘भूय एवोत्तरेण’ इति । गुणवति !, गुणः शरीरस्य हृद्यः स्पर्शगुणो विवक्षितः । गुणवति !, आलिङ्गनादिषु सुखस्पर्शवतीत्यर्थः । एतदेव विवृणोति- पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति । किलशब्दः सम्भावनायाम् । एभिः तुषाराद्रिवातैः । इतिशब्दो हेतौ । अस्यार्थस्य मूलं –
इति श्रीरामायणवचनम् ॥४०॥
संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा
- ↑ १. 'प्पस्य यु' क. पाठः.