देशात् निराकरणात्, निषेधादित्यर्थः । ‘प्रत्यादेशो निराकृतिरि’त्यमरः । मधुनः मधुपानस्य निषेधाद् विस्मृतभ्रूविलासमित्यर्थः । ननु विलासिनीनां स्वभावत एव भ्रूविलासः सम्भवति । उक्तं च –
इति । कथमत्र मधुपानायत्तो भ्रूविलास इत्युक्तम् । सत्यम् । अत्र स्वभावसिद्धोऽपि भ्रूविलासः स्वोद्दीपनविभावस्य मधुपानस्याभावान्नाभिव्यज्यत इति कवेरभिप्रायः । अत एव विस्मृतभ्रूविलासमिति विस्मृतपदं प्रयुक्तम् [१] । त्वद्दर्शनेन तस्याः कुशलसूचकं वामाक्षिस्पन्दनरूपं निमित्तं भविष्यतीत्याह [२]– त्वय्यासन्ने, भवति समीपप्राप्ते । उपरिस्पन्दि वामं मृगाक्ष्या मन्ये मीनोच्चलकुवलयश्रीतुलामेष्यतीतीति पाठः । स्त्रीणां वामाक्षिस्पन्दनमेतन्निमित्तमिति श्रीरामायणे दर्शितं –
इति ॥२८॥
त्वद्दर्शनात् तस्या वामोरुस्पन्दनमपि भविष्यतीत्याह –
र्मुक्ताजालं चिरविरचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां
वाम इति । कररुहपदैः नखपदैः । मुक्ताजालं, स्त्रीणां मुक्तामयं दृटीभूषणं मुक्ताजालमित्युच्यते । हारयष्टिप्रभेदाधिकारे कौटिल्यः – ‘सुवर्णसूत्रान्तरं सोपानकं मणिमध्यं वा मणिसोपानकम् । तेन शिरोहस्त
–-
५९
पादकटीकलापजालकविकल्पा व्याख्याता’ इति । चिरविरचितं चिरकालेन विनिर्मितम् । इदमत्रानुसन्धेयम् – ऊरुमूले निहितानां नखक्षतानां निर्वापणाय स्त्रियः खलु प्रियतमैः सार्धं स्वयं विरचितानि मुक्ताजालकानि बिभ्रति । सा पुनरिदानीं नखक्षताभावाद् नखक्षतनिर्वापणं मुक्ताजालकं दैवगत्या न बिभर्तीति खेदवचनमिति । अस्मिन्नर्थे लिङ्गं तज्जातीयदन्तक्षतनिर्वापणवचनम् । यथा कुमारसंभवे –
इति । हस्तसंवाहनानां हस्ताभ्यां सुखमर्दनानाम् । ‘संवाहनं मर्दनं स्याद्’ इत्यमरः । सरसकदलीस्तम्भगौरम् आर्द्रकदलीस्तम्भपाण्डुरम् । ऊर्वोर्गौरत्वं च निवातवर्तित्वात् । चलत्वं स्फुरणम् ॥ २९॥
दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चित्
तस्मिन्निति । तस्मिन् निशीथे काले । ‘मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे’ इत्युक्तत्वात् । लब्धनिद्रासुखा स्यादिति, सा सततं विरहवेदनादनिद्रा भवति दैवाद् यदि सुप्ता स्यादित्यर्थः । अन्वास्य याममात्रं सहस्वेति । ननु विरहिणां याममात्रं स्वापो न भवति । उक्तं च –
इति । सत्यमिदम् । न तत्स्वापापेक्षया याममात्रपदं प्रयुक्तं किन्तु संभोगापेक्षया । संभोगस्य परमावधिरेकवारो यामावसायिक[३] इति कामतन्त्रविदो वदन्ति । तथा रतिविलासे –