२०
तेषामिति । तेषां दशार्णानाम् । दिक्षु प्रथितविदिशालक्षणां प्रसिद्धविदिशानामधेयाम् ।
इति यादवः ।
इति कथासारे । विदिशेति कापि नद्यप्यस्ति ।
नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान्"
इति वचनात् । सा त्वन्यत्र देशे, वेत्रवतीपरिभोगस्योक्तत्वादित्यनुसन्धेयम् । राजधानीं प्रधाननगरीम् । तेषां राजधानीमित्यन्वयः । लब्धा इति पाठः । लब्धा लप्स्यते, कर्मणि लुडन्तमिदं रूपम् । राजधानीं प्राप्य त्वया कामुकत्वस्य फलं लप्स्यत इत्यर्थः । कुतो लप्स्यते इत्यपेक्षायामाह- तीरोपान्तस्तनितसुभगमिति । अनेनाधरोपान्तस्तनितसीत्कारसुभगत्वं च विवक्षितम् । यद् यस्मात् । तत् तस्मात् । तच्छब्देन प्रसिद्धं परामृश्यते । ‘यच्छब्दनिकटवर्ती तच्छब्दः प्रसिद्धिं परामृशती’ति वचनात् । सभ्रूभङ्गं भ्रूमङ्गसहितम् । वेत्रवत्याश्चलोर्मि इति पाठः । चलोर्मि चलतरङ्गम् । इदं विशेषणं सभ्रूभङ्गविशेषणस्थानीयम् । कामिन्याः ससीत्कारं सभ्रूभङ्गं मुखमिव वेत्रवत्यास्तीरोपान्तस्तनितसुभगं चलोर्मि स्वादु तत् पयः पास्यतीति यस्मात् तस्मात् कामुकत्वस्य फलं त्वया लप्स्यत इत्यर्थः । उत्तरश्लोकपरिज्ञानायात्रेदमनुसन्धेयं -– विदिशानगरवर्तिन्यः पण्याङ्गनाः सर्वाङ्गसुन्दर्यः सर्वललितकलाविचक्षणाः सर्वपुरुषावर्जनकुशलाश्च भवन्ति । तत्रत्याः पुनर्नागराः पुरुषास्ताभ्योऽप्यतिसुन्दराः सुभगयौवनाः स्त्रीसम्भोगविदग्धाश्च भवन्ति । तेषां नागराणां सौन्दर्यातिशयेन तान् कामयमानाः पण्याङ्गनाः मात्रादिभयेन स्वगृहेषु भोक्तुमपारयन्त्यस्तस्मान्नगरान्निर्गत्य प्रत्यासन्नस्य नीचैराख्यस्य गिरेः सङ्केतस्थानभूतेषु शिलागृहेषु तैर्निर्दयं रतान्यनुभूयानुभूय पुनर्विदिशां गुप्तं[१] प्रविशन्तीत्यैतिह्यमस्ति इति ॥२४॥
२१
तदैतिह्यं हृदये कुर्वन्नाह-
स्त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः ।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा-
नीचैरिति । सुरतगृहवत्तया नीचैराख्यत्वं पर्वतस्य । तत्र तस्मिन् गिरौ । विश्रामहेतोः, ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७.३.३४) इति प्रतिषेधात् विश्रमहेतोरिति वक्तव्यम् । विश्रामहेतोरित्यस्य रूपसिद्धिश्चान्द्रव्याकरणेनेत्यनुसन्धेयम् । प्रौढपुष्पैः परिणतपुष्पैः । कदम्बैरित्युक्तेऽपि कदम्बकुसुमैरित्यर्थो गृह्यते । कदम्बकुसुमानां पुलकसन्निवेशत्वमस्ति ।
इति यादवः । पण्यस्त्रीरतिपरिमलोद्गारिभिर्गणिकाजनरतिमर्दगन्धोद्गारिभिः । नागराणां विदिशानगरवासिनाम् । उद्दामानि विशृङ्खलानि । अयमभिसन्धिः -– पण्यस्रीरतिपरिमलोद्गारीणि यस्य शिलावेश्मानि दृष्ट्वा तत्रत्या जना एवं विस्मयन्ते ‘अहो नागराणां यौवनानि, यतः पण्याङ्गना अपि पणप्रदानं विना स्वसौभाग्येन वशीकृत्य स्वैरमेतेषु शिलागृहेषु भुञ्जत’ इति ॥ २५ ॥
न्नुद्यानानां नवजलकणैर्यूथिकाजालकानि ।
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
विश्रान्त इति ! वननदीतीरजानाम्, अकृत्रिमत्वान्नदीतीरमुक्तम् । उद्यानानां पुष्पारामाणाम् । । यूथिकाजालकानि मागधीनां प्रत्यग्रकुसुमजालानि । ननु
- ↑ १. ’दृप्ताः प्र’ ख. पाठः,