पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३. ११.] प्रभापनिषत् यमुनाया गङ्गया संयुज्य सागरगमनेऽपि यमुना सागरं गच्छतांनि वचो न विरुद्धयते, तद्वादिति भाषितम्', तथाप्यस्य प्रकरणस्य प्राणप्रशंसापरत्वाज्जीवस्य प्राणोपगमोक्ति- रुपपद्यत इति द्रष्टव्यम् । प्राणस्तेजसेति । अनन्तरं "प्राणस्तेजसि तेजः पर- स्यां देवताया मिति श्रुत्युक्तरीत्या तेजसा परमात्मना च संयुक्तः प्राणः तत्तजीवात्म- संकल्पानुसारेण ते तं लोकं म्रियमाणं नयति । ततश्च तेज स्साहेतस्यैव प्राणस्योन्न- यनहेतुत्वात् तेजसोऽप्युन्नयनहेतुत्वेनोदानत्वं युक्तामिति भावः । यद्यपि "प्राणस्तेजसी" त्यत्र तेजश्शब्देन सर्वाणि भूतान्युच्यन्ते न तेजोमात्रमिति " भूतेषु द्वच्छ्रुतेः, नैकस्मिन् दर्शयतो हि " इत सूत्रभाष्ययोः प्रतिपादितम्, तथापि भूतान्तर- संसृष्टमेव तेजस्तेजश्शब्दनाभिधीयत" इति भाष्योक्तेस्तेजसः प्राधान्यात् तदुक्ति- रुपपद्यत इति द्रष्टव्यम् ॥ ९ ॥ १० ॥ बाह्यं तेज इति । अनुपदिमिदं स्पष्टोभविष्यति । प्राप्तुमिति । अध्याहृतमेतत् । तेजसा सहितस्यैवेति । शरीरारम्भकभूतपूनियन्वननेन तेजसेत्यर्थः । उदानत्वं युक्तमिति भूतसूक्ष्मस्य तेजस उदानत्वे तत्सजातीयस्य बाह्यस्य तेजसोऽपि तत्त्वं युक्तमिति भावः। प्राधान्यादिति । उद्गमनसाधनतयेह प्राधान्यं बोध्यम् । " य एवं विद्वान् प्राणं वेद । न हास्य प्रजा हीयतेऽमृतो भवति । तदेष श्लोकः ।। ११ ।। य एवं विद्वानिति । एवं उत्पत्त्यागमनप्रतिष्ठादिप्रकारेण प्राणं य उपास्ते, तस्य पुत्रपौत्रादिलक्षणप्रजाहानिर्न भवति । परिशुद्धप्रत्यगात्मस्वरूप- प्रतिपत्तिमुखेन ब्रह्मापासननिष्पत्तिद्वारा' मोक्षहेतुश्च भवतीति द्रष्टव्यम् । तदेष श्लोक इति । तत् प्राणवेदनमधिकृत्य प्रवृत्तोऽयं श्लोक इत्यर्थः ।। ११ ॥ य उपास्त इति । उपदेशाधीनस्य ज्ञानस्य विद्वानित्यनेनोक्तत्वात् वेदेत्यनन उपास- नात्मकमेव वेदनं विवक्षणायम् : फलश्रवणात्वेति भावः । ब्रह्मोपासनेति। तस्यैव साक्षान्मो- क्षोपायत्वादिति भावः । अधिकृत्येति। प्राणवेदनस्य यः प्रकारः यच्च पार्यन्तिकः फलमुक्तं तत्प्रतिपादनपरः श्लोक इति । 1. आ. ना. पू. श्रीभाष्यानुवादे बहुधा अन्यथाभावो दृश्यते । 2. प्र. पू. 'तेजसा' है. प्र. पू. 'प्रीतिद्वारा।