xxxix
अत्र च ग्रन्थे अनितरसाधारण्येन, ग्रन्थान्तरेष्वचर्चिताभिः बह्वीभिर्युक्तिभिः ईश्वरस्थापनं सविशेषमारचितम् । निरीश्वरवादिभिः प्रतिपक्षैः प्रदर्शिताश्च बह्व्यो युक्तयः अनूद्य निरस्ताः ॥
अत्र च उदाहृताः प्राचीनग्रन्थास्त्विमे--१. दशोपनिषदः २. भगवद्गीता ३. महाभारते मोक्षधर्मपर्व ४. विष्णुसहस्रनामस्तोत्रम् ५. मनुस्मृतिः ६. गौतमधर्मसूत्रम् ७. पाणिनिसूत्रम् ८. महाभाष्यम् ९. शाबरभाष्यम् १०. श्लोकवार्तिकम् इत्यादयः ॥
व्यासभाष्यस्य प्राचीनमपि व्याख्यानं विवरणे क्वचित् नामनिर्देशं विना 'अन्येषां व्याख्यानम्' इति अनूदितम् । तेन विवरणात् प्रागपि कानिचित् भाष्यव्याख्यानानि आसन् इति ज्ञायते । पश्चाच्च १. वाचस्पतिमिश्रप्रणीता तत्त्वविशारदीनाम्नी भाष्यटीका २. विज्ञानभिक्षुप्रणीतं योगवार्तिकापराभिधं भाष्यव्याख्यानम् इत्यपरं व्याख्याद्वयं भाष्यस्य मुद्रितमस्ति ॥
योगसूत्रोपरि बह्व्यः टीकाः सन्ति मुद्रिताः--१. भोजदेवकृता राजमार्तण्डाभिधा वृत्तिः २. विज्ञानभिक्षुशिष्यभावागणेशकृता योगसूत्रदीपिका ३. तदनुसारिणी नागोजिभट्टीया वृत्तिः । २. ३. उभयमपीदं विज्ञानभिक्षुमार्गानुसारि । ४. श्रीरामानन्दयतिकृता मणिप्रभाख्या वृत्तिः ५. योगसिद्धान्तचन्द्रिका ६. सूत्रार्थबोधिनी, इति श्रीनारायणतीर्थविरचितटीकाद्वयम् ७. योगसुधाकरो नाम श्रीसदाशिवब्रह्मेन्द्रकृता योगसूत्रवृत्तिः इत्याद्याः ॥
तदिदं पातञ्जलयोगसूत्रभाष्यविवरणम् इदंप्रथमतया मुद्रणपदवीमारोपितं मद्रास्नगरस्थराजकीयप्राच्यपुस्तकागाराध्यक्षैः । अस्य च मातृका एकैव पुस्तकागारस्था संशोधनाय समासादिता, नान्यत् पुस्तकं अन्वेषणेऽपि लब्धम् । तत्र च आदर्शकोशे लेखकप्रमादाद्वा, लेखकेन लेखनाय निरीक्षितस्य प्राचीनमूलपुस्तकस्य सम्बन्धिनां बहूनां पुटानाम् अधरोत्तरविपर्यासाद्वा, यतःकुतश्चित् अनिर्वचनीयात् हेतोः आदितः आरभ्य आाऽन्तं विंशतिसङ्ख्याकेषु स्थलेषु सान्तत्येन विलिखितान् मिथोऽनन्वितावयवान् अत एव दुर्बोधार्थान् ग्रन्थभागान् निरीक्ष्य कथमिदं मुद्रणार्हं, मुद्रितेऽपि निष्फलमेव भवेत् इति चिन्ताव्याकुलितमानसानामस्माकं दुर्वचेन महता प्रयासेन बहुपुटव्यवधानतो विशकलितानां विप्रकीर्णानां वाक्यानां मिथोऽन्वययोग्यानाम् अक्षरशो गवेषणेन सिंहावलोकमण्डूकप्लुत्यादिनीतिमनुसृत्य पश्चिमवाक्यस्य