पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/42

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxxviii

 तदिदं योगशास्त्रं समाधिसाधनविभूतिकैवल्याख्यपादचतुष्टयविशिष्टम् । तत्र प्रथमे पादे (५१) एकपञ्चाशत्सूत्रोपेते प्राधान्येन समाधिप्रतिपादनात् समाधिपादाभिधे, योगोद्देशः, तल्लक्षणम्, चित्तवृत्तिभेदाः, तन्निरोधोपायभूताभ्यासवैराग्ये, चित्तस्थित्युपायाः केचन, सम्प्रज्ञातासम्प्रज्ञाताभिधो द्विविधो योगः सोपायः सफलः सावान्तरभेदश्च, ईश्वरस्य स्वरूपप्रमाणप्रभाववाचकोपासनतत्फलानि च, इत्यादिकं प्रत्यपादि ॥

 द्वितीये (५५) पञ्चपञ्चाशत्सूत्रमण्डिते कैवल्यसाधनसम्यग्दर्शनसाधनयोगसाधनानां प्राधान्येन प्रतिपादनात् साधनपादाभिधे, क्लेशतनूकरणद्वारा योगसाधनीभूतः क्रियायोगः, क्लेशकर्मविपाकाः, तेषां हेयत्वप्रयोजकं दुःखरूपत्वं, हेयतद्धेतुमोक्षतद्धेतवः चत्वारो व्यूहाः, योगं प्रति बहिरङ्गसाधनीभूतं यमादिपञ्चकं सावान्तरफलम्, इत्यादिकं प्रत्यपादि ॥

 तृतीये (५५) पञ्चपञ्चाशत्सूत्रालङ्कृते योगसाधनानुष्ठानप्रवृत्तस्य आनुषङ्गिकविभूतेः प्राधान्येन प्रतिपादनात् विभूतिपादाभिधे, धारणादित्रितयं योगं प्रति अन्तरङ्गसाधनीभूतं संयमसंज्ञं, संयमस्य लक्ष्याः परिणामभेदाः, संयमसाध्याः श्रद्धाद्वारा कैवल्यफलकयोगप्रवृत्तिहेतवः अतीतानागतज्ञानभुवनज्ञानकायव्यूहज्ञानादिरूपाः विभूतयः, इन्द्रियजयादिरूपाः साक्षाद्योगाङ्गभूताः सिद्धयः, योगफलभूता तारकसंज्ञितविवेकज्ञानसिद्धिः, इत्यादिकं प्रत्यपादि ॥

 चतुर्थे (३४) चतुस्त्रिंशत्सूत्रभूषिते सकलयोगैश्वर्येभ्यो विरक्तस्य सर्वोपसंहारद्वारेण कैवल्यस्य प्राधान्येन प्रतिपादनात् कैवल्यपादाभिधे, द्विविधं कैवल्यस्वरूपं, कैवल्यभागीयं चित्तं, परलोकः, परलोकगामी क्षणिकविज्ञानातिारक्तात्मा चित्तविकारसुखादिभोक्ता, धर्ममेघाख्यसमाधिः,प्रासङ्गिकं चान्यत् इत्यादिकं प्रत्यपादि ॥

 एवं पादचतुष्टयवता(१९५)पञ्चनवत्यधिकशतसूत्रयुजा योगसूत्रेण सूचितं महान्तं प्रमेयराशिं हृदयहारिण्या श्रोत्रपुटपेयया शैल्या विवृण्वतः वेदव्यासभाष्यस्य परमगम्भीरस्यानुरूपं प्रसन्नगम्भीरमिदं विवरणं विशेषतो भाष्याशयमभिव्यञ्जयत् परमोपकारकं योगविजिज्ञासूनाम् । कर्तृगौरवात् विषयविवेचनशैलीरामणीयकाच्च पठनमात्रेण हृदयावर्जकं नातीव विशिष्य वक्तव्यतामावहति ॥