एव वत्सभावेऽपि भक्तिमत्सु तेषु निजपितृवत्सलतामसकृत्समीक्ष्य मत्सरेण दु[१]र्मनायमानो हृदयालवाले सु[२]योधनो राघेयप्रधानदु[३]र्बोधनमेधोत्सेधसविधधरणिरुहमधिरूढाम[४]कुतोनुरोधा विरोधविषवीरुधमेधाचक्त्रे ।
तीव्रोदयानविनयान्दधता क्त्रमेण |
एवमिति । वत्सभावे बाल्ये भक्तिमत्सु । स्वस्मिन्निति भाव । तेषु पाण्डवेषु । एवमुक्तविधा निजस्य पितुर्धृतराष्ट्स्य वत्सलता प्रेम समिक्ष्य द्दष्टवा ज्ञात्वा दुर्मनाय मान खिद्यन् । अतएव सुयोधनो दुर्योधनो मत्सरेणान्यशुभद्वेषेण हेतुना । मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोरपि इति विश्व । राधेय कर्ण प्रधानो मुख्यो येषा तेषा कर्णशकुनिदु शासनाना दुष्ट बोधन प्रेरण यस्यास्तादृशी मेधा स्वबुद्धिरेवोत्सेधसविधधरणीस्ह उन्न्तान्तिकवृक्षस्तमधिरुढाम् । तस्मिन्वेल्लितामित्यर्थ । अकुतोनुरोधा निरङ्कुशा विरोध पाण्डवेषु वैर स एव विषवीरुदूत्सनाभलता ता हृदयमेवालवाल वृक्षमूलवर्तुलसेतुस्तस्मिन्नेवाचक्रे वर्धयामास । अत्र पाण्डवेषु धृतराष्ट्प्रेमदर्शनस्य दुर्योधनखेद प्रति तस्य मत्सर प्रति तस्य विषवीरुद्वर्धन प्रति च हेतुत्वादङ्गाङ्गिभावसकीर्णेन काव्यलिङ्गन्नयेण सकीर्णसमस्तवस्तुवर्ति सावयवरूपकम् ॥
तीव्रेति । तीव्रो दारुण उदय आविर्भावो येषा तानविनयान्दुष्टचेष्टितानि दधताम् । कुर्वतामित्यार्थ । दुरहकृतीना निष्फलाहकाराणा दुर्योधन आदिर्येषा तेषामसुहृदा शत्रूणा सबन्धिनि पट्टाभिषेकमभिलष्यति कामयमाने फाल देशे ललाटे कुट्टाकभाव मुष्टिकुट्टने कुतुक कौतूहल भीम कुरुते स्म । कुट्टाक पाणिकुट्टनम् इति शब्दार्णवे । भीमो न मृष्यतीति दुर्योधनादयो यौवराज्याय निराशा बभूवुरित्यर्थ ॥८३॥