मन्दुमन्दमुपेत्य तत्र स[१]दसो मत्पाण्दडुपुत्राङ्कुरा |
पाण्डवेषु दृढतापरिणाहप्रायरूपत[२]नुसपदियत्ताम् । |
दत्त्वा त[३]त्तप्रत्यह यद्यदिष्ट यावत्स्वेषामात्मजानां शतेऽपि । |
मन्दमिति । तत्र हस्तिनपुरे स प्रसिद्ध कौरवो धृतराष्ट्र सदस आ स्थानमण्डपान्मन्दमन्द शनै शनैरुपेत्यागत्य । अन्धत्वादानन्दपारवश्याद्वेति भाव । मम पाण्डो पुत्रा अङ्कुरा इव ते क्क कुत्र । इति वदन्निति शेष । प्रेम्णा पुर प्रसारितौ करौ यस्य तथोक्त सन् दृढ यथा तथालिङ्गन कुर्वेश्च सन् । अथालिङगनानन्तर निजमङ्क गमितान्प्रापितानिमान्युधिष्ठिरादीन्स्पर्शस्पर्श स्पृष्ट्वा स्पृष्ट्वा। आदरात्पौन पुन्योक्ति । आभीक्ष्ण्ये णमुलो द्विर्भाव । भ्रातु पाण्डुम् । 'अधीगर्थ-' इत्यादिना कर्मणि षष्टी । स्मरन्सन् । एकसबिन्धज्ञानस्यापरसबन्धिस्मारकत्वादिति भाव । च्योतद्भिर्धारयमाणैर्नयनाम्बुमिर्बाव्यै शोक पाण्डुसबन्धि नदी माता चर्धयित्री यस्य तथोक्त नदीमातृक विदघे चकार । शार्दूलविक्रीडित वृतम् ॥ ८० ॥
पाण्डवेष्विथि । दृशान्धोऽक्ष्णा काण स धृतराष्ट्र पाण्डवेषु या दृढताङ्गढर्थ परिणाह ऊर्ध्वाधस्तिर्यग्विस्तार प्रायो वयो रूपमाकृतिस्तनु शरीरं च तासा सपद समृद्धेरियत्तामिदमेतावदिति परिमाणविशेष स्पर्शन पाण्डव स्पर्श विदधता कुर्वता पाणिना स्वहस्तेनैव परिममौ मान कृतवान् । माते कर्तरि लिट् । अत्रान्धत्वस्य पाणिकरणकमाननिर्धारणहेतुत्वात्पदार्थहेतुक काव्य लिङ्गम् । स्वागतावृत्तम् ॥ ८१ ॥
दत्त्वेति । अम्बिकासूनुर्धृतराष्ट्र प्रत्यह दिने दिने यद्यद्वस्तु तेषा पाण्डवाना मिष्ट काक्षित भवति तत्तद्दत्त्वा । तेभ्य इति भाव । खेषां स्वीयानामात्मजाना शतेऽपि पुत्रशतकेऽपि यावत्प्रेमास्ति तावत्प्रेम पाण्डो पुत्रेष्वेकैकस्मिन्युधिष्ठि रादौ बबन्ध घटितवान् । भ्रातृवात्सल्यदिति भाव । शालिनीवृत्तम्- 'शालि न्युक्ता म्तौ तगौ गोऽब्धिलोकै' इति लक्षणात् ॥ ८२ ॥