सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
[ आदितस्तरङ्गः ४
कथासरित्सागरः ।

ततस्ते हृतसर्वस्वाः परदारैषिणोऽखिलाः । राज्ञा निर्वासिता देशादशीलं कस्य भूतये ॥ ८४

भगिनी मे त्वमित्युक्त्वा दत्वा प्रीत्या धनं बहु । उपकोशापि भूपेन प्रेषिता गृहमागमत् ॥ ८५

वर्पवयं तदुद्दा साध्वीं तामभ्यनन्दताम् । सर्वथा विस्सयमेः पुरे तत्राभवज्ञानः ॥ ८६

अत्रान्तरे तुषाराद्रौ कृत्वा तीव्रतरं तपः । आराधितो मया देवो वरदः पार्वतीपतिः ॥ ८७

तदेव तेन शास्त्रं मे पाणिनीयं प्रकाशितम् । तदिच्छानुग्रहदेव मया पूर्णकृतं च तत् ॥ ८८

ततोऽहं गृहमागच्छमज्ञाताध्वपरिश्रमः। निशाकरकलामौलिप्रसादामृतनिर्भरः ॥ ८९

अथ मातुर्गुरूणां च कृतपादाभिवन्दनः । तत्रोपकोशावृत्तान्तं तमश्रौषं महाद्भुतम् ॥ ९०

तेन मे परमां भूमिमामन्यानन्दविस्मयौ । तस्यां च सहजस्नेहबहुमानावगच्छताम् ॥ ९१

वर्षोंऽथ मन्मुख दैच्छच्छतुं व्याकरणं नवम् । ततः प्रकाशितं स्थामिकुमारेणैव तस्य तत् ॥ ९२

ततो व्याडीन्द्रदत्ताभ्यां विज्ञप्तो दक्षिणां प्रति । गुरुर्वर्षाऽब्रवीत्स्वर्णकोटिर्मे दीयतामिति ॥ ९३

अङ्गीकृत्य गुरोर्वाक्यं तौ च मामित्यवोचताम् । एहि राज्ञः खखे नन्दद्याचितुं गुरुदक्षिणाम् ॥ ९४

गच्छामो नान्यतोऽस्माभिरियत्काञ्चनमाप्यते । नवाधिकाया नवतेः कोटीनामधिपो हि सः ॥ ९५

वाचा तेनोपकोशा च प्रग्धर्मभगिनी कृता । अतः श्यालः स ते किंचित्त्वद्यैः समवाप्यते ॥ ९६

इति निश्चित्य नन्दस्य भूपतेः कटकं वयम् । अयोध्यास्थमगच्छाम त्रयः सब्रह्मचारिणः । ९७

प्राप्तमात्रेषु चास्मसु स राजा पञ्चतां गतः । राष्ट्र कोलाहलं जातं विषादेन सहैव नः ॥ ९८

अवोचदिन्द्रदत्तोऽथ तत्क्षणं योगसिद्धिमान् । गतासोरस्य भूपस्य शरीरं प्रविशाम्यहम् ॥ ९९

अर्थे वररुचिर्मेऽस्तु दास्याम्यस्मै च काञ्चनम् । व्याडी रक्षतु मे देहं ततः प्रत्यागमावधि १००

इत्युक्त्वा नन्ददेहान्तरिन्द्रदत्तः समाविशत् । प्रत्युज्जीवति भूपे च राष्ट्रे तत्रोत्सवोऽभवत् ॥ १०१

शन्ये देवगृहे देहमिन्द्रदत्तस्य रक्षितुम् । व्याडौ स्थिते गतोऽभूवमहं राजकुलं तदा ॥ १०२

प्रविश्य स्वस्तिकारं च विधाय गुरुदक्षिणाम् । योगनन्दो मया तत्र हेमकोटिं स याचितः ॥ १०३

ततः स शकटालाख्यं सत्यनन्दस्य मन्त्रिणम् । सुवर्णकोटिमेतस्मै दापयेति समादिशत् ॥ १०४

मृतस्य जीवितं दृष्ट्वा सद्यश्च प्राप्तिमर्थिनः। स तत्त्वं ज्ञातवान्मां किसज्ञेयं हि धीमताम् ॥१०५

देव दीयत इत्युक्त्वा स च मन्त्रीत्यचिन्तयत् । नन्द्रस्य तनयो बालो राज्यं च बहुशनुमत् ॥ १०६

तत्संप्रत्यत्र रक्षामि तस्य देहमपीदृशम् । निश्रियैतत्स तत्कालं शवान्सर्वानदर्शयत् । १०७

चारैरन्विष्य तन्मध्ये लब्ध्वा देवगृहात्तंतः । व्याडिं विधूय तद्दग्धमिन्द्रदत्तकलेवरम् ॥ १०८

अत्रान्तरे च राजानं हेमकोटिसमर्पणे । त्वरमाणमथाह स्म शकटलो विचारयन् ॥।१०९

उत्सवाक्षिप्तचित्तोऽयं सर्वैः परिजनः स्थितः । क्षणं प्रतीक्षतामेष विप्रो यावद्ददाम्यहम् ॥ ११०

अथैत्य योगनन्दस्य व्याडिना क्रन्दितं पुरः। अब्रह्मण्यमनुत्क्रान्तजीवो योगस्थितो द्विजः ॥ १११

अनाथशव इत्यद्य बलाद्दग्धस्तवोदये । तच्छुत्वा योगनन्दस्य काप्यवस्थाभवच्छुचा ॥ ११२

देहदाहारिस्थरे तस्मिञ्जते निर्गत्य मे ददौ । सुवर्णकोटिं स ततः शकटालो महामतिः ॥११३

योगनन्दोऽथ विजने सशोको व्याडिमब्रवीत् । श्रीभूतोऽस्मि विप्रोऽपि किं श्रिया स्थिरयापि मे ॥ ११४

तच्छुत्वाश्वास्य तं व्याडिः कालोचितमभाषत । ज्ञातोऽसि शकटाळेन तदनं चिन्तयाधुना ॥ ११५

सहमी ह्ययं स्वेच्छसचिरावां विनाशयेत् । पूर्वनन्दसुतं कुर्याच्चन्द्रगुप्त हि भूमिपम् ॥ ११६

तस्माद्वररुचिं मत्रिमुख्यत्वे कुरु येन ते । एतदुद्ध्या भवेद्राज्यं स्थिरं दिव्यानुभावया ॥ ११७

इत्युक्त्वैव गते घ्याङ दातुं तां गुरुदक्षिणाम् । तदैवानीय दत्ता मे योगनन्देन मन्त्रिता ॥
११८

अथोक्तः स मया राजा ब्राह्मण्ये हारितेऽपि ते । राज्यं नैव स्थिरं मन्ये शकटाले पदस्थिते ॥ ११९

तस्मान्नाशय युक्तयैनमिति मन्त्रे मयोदिते । योगानन्दोऽन्धकूपान्तः शकटाई तमक्षिपत् ॥ १२०

किं च पुत्रशतं तस्य तत्रैव क्षिप्तवानसौ। जीवन्द्विजोऽमुना दग्ध इति दोषानुकीर्तनात् ॥ १२१

एकः शरावः सक्तूनासेकः प्रत्यहमम्भसः । शकटलस्य तत्रान्तः सपुत्रस्य न्यधीयत ॥ १२२