पाशुपतसूत्रम्

विकिस्रोतः तः
पाशुपतसूत्रम्
[[लेखकः :|]]



अथ प्रथमोऽध्यायः

अथातः पशुपतेः पाशुपतं योग-विधिं व्याख्यास्यामः ॥ १.१ ॥
भस्मना त्रिषवणं स्नायीत ॥ १.२ ॥
भस्मनि शयीत ॥ १.३ ॥
अनुस्नानं ॥ १.४ ॥
निर्माल्यं ॥ १.५ ॥
लिङ्ग-धारी ॥ १.६ ॥
आयतन-वासी ॥ १.७ ॥
हसित-गीत-नृत्त-दुंदुं-कार-नमस्कार-जप्यो१ अहारेणो७ अतिष्ठेत् ॥ १.८ ॥
महा-देवस्य दक्षिणा-मूर्तेः ॥ १.९ ॥
एक-वासाः ॥ १.१० ॥
अवासा वा ॥ १.११ ॥
मूत्र-पुरीषं ना७ एक्षेत् ॥ १.१२ ॥
स्त्री-शूद्रं ना७ हिभाषेत् ॥ १.१३ ॥
यद्यवेक्षेद्यद्यभिभाषेत् ॥ १.१४ ॥
उपस्पृश्य ॥ १.१५ ॥
प्राणा३ आमं कृत्वा ॥ १.१६ ॥
रौद्रीं गायत्रीं बहु-रूपीं वा जपेत् ॥ १.१७ ॥
अकलुष-मतेः ॥ १.१८ ॥
चरतः ॥ १.१९ ॥
ततोऽस्य योगः प्रवर्तते ॥ १.२० ॥
दूर-दर्शन-श्रवण-मनन-विज्ञानानि चा३ य प्रवर्तन्ते ॥ १.२१ ॥
सर्व-ज्ञाता ॥ १.२२ ॥
मनो-जवित्वम् ॥ १.२३ ॥
काम-रूपित्वम् ॥ १.२४ ॥
विकरणः ॥ १.२५ ॥
धर्मित्वं च ॥ १.२६ ॥
सर्वे चा७ य वश्या भवन्ति ॥ १.२७ ॥
सर्वेषां चा७ अश्यो भवति ॥ १.२८ ॥
सर्वांश्चा८ इशति ॥ १.२९ ॥
सर्वेषां चा७ आवेश्यो भवति ॥ १.३० ॥
सर्वे चा७ य वध्या भवन्ति ॥ १.३१ ॥
सर्वेषां चा७ अध्यो भवति ॥ १.३२ ॥
अभीतः ॥ १.३३ ॥
अक्षयः ॥ १.३४ ॥
अजरः ॥ १.३५ ॥
अमरः ॥ १.३६ ॥
सर्वत्र चा७ रतिहत-गतिर्भवति ॥ १.३७ ॥
इत्येतैर्गुण-युक्तो [गुणैर्युक्तो] भगवतो महा-देवस्य महा-गण-पतिर्भवति ॥ १.३८ ॥
अत्रे७ अं ब्रह्म जपेत् ॥ १.३९ ॥
सद्यो-जातं प्रपद्यामि ॥ १.४० ॥
सद्यो-जाताय वै नमः ॥ १.४१ ॥
भवे भवे ना७ इभवे ॥ १.४२ ॥
भजस्व माम् ॥ १.४३ ॥
भवोद्भवः ॥ १.४४ ॥


अथ द्वितीयोऽध्यायः

वामः ॥ २.१ ॥
देवस्य ॥ २.२ ॥
ज्येष्ठस्य ॥ २.३ ॥
रुद्रस्य ॥ २.४ ॥
कलिता३ अनम् ॥ २.५ ॥
सार्व-कामिक इत्याचक्षते ॥ २.६ ॥
अमङ्गलं चा७ र मङ्गलं भवति ॥ २.७ ॥
अपसव्यं च प्रदक्षिणम् ॥ २.८ ॥
तस्मादुभयथा यष्टव्यः ॥ २.९ ॥
देववत्पितृवच्च ॥ २.१० ॥
उभयं तु रुद्रे देवाः पितरश्च ॥ २.११ ॥
हर्षा१ रमादी ॥ २.१२ ॥
चर्यायां चर्यायाम् ॥ २.१३ ॥
माहात्म्यमवाप्नोति ॥ २.१४ ॥
अतिदत्तमतीष्टम् ॥ २.१५ ॥
अतितप्तं तपस्तथा ॥ २.१६ ॥
अत्यागतिं गमयते ॥ २.१७ ॥
तस्मात् ॥ २.१८ ॥
भूयस्तपश्चरेत् ॥ २.१९ ॥
ना७ य-भक्तिस्तु शंकरे ॥ २.२० ॥
अत्रे७ अं ब्रह्म जपेत् ॥ २.२१ ॥
वाम-देवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ २.२२ ॥
कालाय नमः ॥ २.२३ ॥
कल-विकरणाय नमः ॥ २.२४ ॥
बल-प्रथमनाय नमः ॥ २.२५ ॥
सर्व-भूत-दमनाय नमः ॥ २.२६ ॥
मनो-ऽमनाय नमः ॥ २.२७ ॥


अथ तृतीयोऽध्यायः

अव्यक्त-लिङ्गी ॥ ३.१ ॥
व्यक्ता३ आरः ॥ ३.२ ॥
अवमतः ॥ ३.३ ॥
सर्व-भूतेषु ॥ ३.४ ॥
परिभूयमानश्चरेत् ॥ ३.५ ॥
अपहत-पाप्मा ॥ ३.६ ॥
परेषां परिवादात् ॥ ३.७ ॥
पापं च तेभ्यो ददाति ॥ ३.८ ॥
सुकृतं च तेषामादत्ते ॥ ३.९ ॥
तस्मात् ॥ ३.१० ॥
प्रेतवच्चरेत् ॥ ३.११ ॥
क्राथेत वा ॥ ३.१२ ॥
स्पन्देत वा ॥ ३.१३ ॥
मण्टेत वा ॥ ३.१४ ॥
शृङ्गारेत वा ॥ ३.१५ ॥
अपि तत्कुर्यात् ॥ ३.१६ ॥
अपि तद्भाषेत् ॥ ३.१७ ॥
येन परिभवं गच्छेत् ॥ ३.१८ ॥
परिभूयमानो हि विद्वान् कृत्स्न-तपा भवति ॥ ३.१९ ॥
अत्रे७ अं ब्रह्म जपेत् ॥ ३.२० ॥
अघोरेभ्यः ॥ ३.२१ ॥
अथ घोरेभ्यः ॥ ३.२२ ॥
घोर-घोरतरेभ्यश्च ॥ ३.२३ ॥
सर्वेभ्यः ॥ ३.२४ ॥
शर्व-सर्वेभ्यः ॥ ३.२५ ॥
नमस्ते अस्तु रुद्र-रूपेभ्यः ॥ ३.२६ ॥


अथ चतुर्थोऽध्यायः

गूढ-विद्या तप आनन्त्याय प्रकाशते ॥ ४.१ ॥
गूढ-व्रतः ॥ ४.२ ॥
गूढ-पवित्र-वाणिः ॥ ४.३ ॥
सर्वाणि द्वाराणि पिधाय ॥ ४.४ ॥
बुद्ध्या ॥ ४.५ ॥
उन्मतवदेको विचरेत लोके ॥ ४.६ ॥
कृता१ नमुत्सृष्टमुपाददीत ॥ ४.७ ॥
उन्मत्तो मूढ इत्येवं मन्यन्ते इतरे जनाः ॥ ४.८ ॥
असन्-मानो हि यन्त्राणां सर्वेषामुत्तमः स्मृतः ॥ ४.९ ॥
इन्द्रो वा अग्रे असुरेषु पाशुपतमचरत् ॥ ४.१० ॥
स तेषामिष्टा३ ऊर्तमादत्त ॥ ४.११ ॥
मायया सुकृतया समविन्दत ॥ ४.१२ ॥
निन्दा ह्येषा९ इन्दा तस्मात् ॥ ४.१३ ॥
निन्द्यमानश्चरेत् ॥ ४.१४ ॥
अनिन्दित-कर्मा ॥ ४.१५ ॥
सर्व-विशिष्टोऽयं पन्थाः ॥ ४.१६ ॥
सत्-पथः ॥ ४.१७ ॥
कुपथास्त्वन्ये ॥ ४.१८ ॥
अनेन विधिना रुद्र-समीपं गत्वा ॥ ४.१९ ॥
न कश्चिद्ब्राह्मणः पुनरावर्तते ॥ ४.२० ॥
अत्रे७ अं ब्रह्म जपेत् ॥ ४.२१ ॥
तत्-पुरुषाय विद्महे ॥ ४.२२ ॥
महा-देवाय धीमहि ॥ ४.२३ ॥
तन्नो रुद्रः प्रचोदयात् ॥ ४.२४ ॥


अथ पञ्चमोऽध्यायः

असङ्गः ॥ ५.१ ॥
योगी ॥ ५.२ ॥
नित्या३ मा ॥ ५.३ ॥
अजः ॥ ५.४ ॥
मैत्रः ॥ ५.५ ॥
अभिजायते ॥ ५.६ ॥
इन्द्रियाणामभिजयात् ॥ ५.७ ॥
रुद्रः प्रोवाच तावत् ॥ ५.८ ॥
शून्या३ आर-गुहा-वासी ॥ ५.९ ॥
देव-नित्यः ॥ ५.१० ॥
जिते१ द्रियः ॥ ५.११ ॥
षण्-मासान्नित्य-युक्तस्य ॥ ५.१२ ॥
भूयिष्ठं संप्रवर्तते ॥ ५.१३ ॥
भैक्ष्यम् ॥ ५.१४ ॥
पात्रा३ अतम् ॥ ५.१५ ॥
मांसमदुष्यं लवणेन वा ॥ ५.१६ ॥
आपो वा९ इ यथा-कालमश्नीयादनुपूर्वशः ॥ ५.१७ ॥
गो-धर्मा मृग-धर्मा वा ॥ ५.१८ ॥
अद्भिरेव शुचिर्भवेत् ॥ ५.१९ ॥
सिद्ध-योगी न लिप्यते कर्मणा पातकेन वा ॥ ५.२० ॥
ऋचमिष्टामधीयीत गायत्रीमात्म-यन्त्रितः ॥ ५.२१ ॥
रौद्रीं वा बहु-रूपीं वा ॥ ५.२२ ॥
अतो योग प्रवर्तते ॥ ५.२३ ॥
ओं-कारमभिध्यायीत ॥ ५.२४ ॥
हृदि कुर्वीत धारणाम् ॥ ५.२५ ॥
ऋषिर्विप्रो महानेषः ॥ ५.२६ ॥
वाग्-विशुद्धः ॥ ५.२७ ॥
महेश्वरः ॥ ५.२८ ॥


श्मशान-वासी ॥ ५.३० ॥
धर्मा३ मा ॥ ५.३१ ॥
यथा-लब्धो१ अजीवकः ॥ ५.३२ ॥
लभते रुद्र-सायुज्यम् ॥ ५.३३ ॥
सदा रुद्रमनुस्मरेत् ॥ ५.३४ ॥
छित्त्वा दोषाणां हेतु-जालस्य मूलम् ॥ ५.३५ ॥
बुद्ध्या ॥ ५.३६ ॥
संचित्तम् ॥ ५.३७ ॥
स्थापयित्वा च रुद्रे ॥ ५.३८ ॥
एकः क्षेमी सन् वीत-शोकः ॥ ५.३९ ॥
अप्रमादी गच्छेद्दुःखानामन्तमीश-प्रसादात् ॥ ५.४० ॥
अत्रे७ अं ब्रह्म जपेत् ॥ ५.४१ ॥
ईशानः सर्व-विद्यानाम् ॥ ५.४२ ॥
ईश्वरः सर्व-भूतानाम् ॥ ५.४३ ॥
ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ ५.४४ ॥
शिवो मे अस्तु ॥ ५.४५ ॥
सदा ॥ ५.४६ ॥
शिवः ॥ ५.४७ ॥

"https://sa.wikisource.org/w/index.php?title=पाशुपतसूत्रम्&oldid=332144" इत्यस्माद् प्रतिप्राप्तम्